उक्तमननुकूलत्वमुपपादयति, मुखेति ।
मुखदैन्यविकासाभ्यां परदुःखसुखोहनम् । |
मुखदैन्यविकासाभ्यां परदुःखसुखेहने परनिष्ठदुःखसुखयोरनुमानं क्रियते। लोष्ठे तु दैन्याद्यभावतः दुःखाद्यूहो न संभवेत् चेतने सुखदुःखे अनुमातुं शक्येते। अचेतने तु ते तदभावो वा नानुमातुं शक्येते । अतस्तत्र दुःखाभावस्यापि निश्चेतु मशक्यत्वेन तत्र दुःखाभावरूपहेतोव्र्यभिचारोद्भावनं न समंजसमिति भावः ॥३६॥
परकीयसुखदुःखापेक्षया स्वीयसुखदुःखयोवैषम्यस्य सत्त्वेन स्वस्मिन्नपि दुःखतदभावयोस्सुखतदभावयोश्वानुभवैकवेद्यत्वमिति दर्शयति, स्वकीये इति ।
स्वकीये सुखदुःखे तु नोहनीये ततस्तयोः । |
यतः स्वकीये सुखदुःखे अनुमानादिना नोहनीये, नानुमितेर्विषयौ भवतः । तस्तयोर्भावो विद्यमानताऽनुभूत्यैव प्रत्यक्षानुभवेनैव वेद्यः। तथा तदभावोऽपि तत्सुख- दुःखयोरभावोऽपि प्रत्यक्षानुभवेनैव वेद्यः । प्रत्यक्षानुभवादन्यतोऽन्यप्रमाणेनानुमानादिना न, उभयमपि न वेद्यमित्यर्थः ॥ ३७ ॥
तत्र दुःखाभावस्यानुभवैकवेद्यतया दुःखप्रतिद्वंदि सुखमप्यनुभवेनैव गोच रीक्रियत इत्याह, तथेति ।
तथा सति खसुप्तौ च दुःखाभावोऽनुभूतितः । |
तथा सति सुखदुःखयोस्तदभावयोश्च स्वानुभवैकवेद्यत्वात्स्वसुप्तावप्यनुभूतितः अनुभवेनैव दुःखाभावो गोचरीक्रियते विरोधिदु:खराहित्यात्सुखस्य प्रतिद्वंदिन दुःखस्याभावात्सुखं निर्विघ्नमिष्यतामनुभूयत इत्यंगीक्रियताम् । सुषुप्तौ दुःखं नानुभूयते। न सुप्तोत्थितः कोऽपि “दुःखमस्वाप्स"मिति सौषुप्तिकदुःखं स्मरति । अतो दुःखाभाव एवानुमीयते । ननु दुःखानुभवाभावे दुःखाभाव एवानुमातव्यो न तु सुखानु