पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४६१
कल्याणपीयूषव्याख्यासमेता

 अत्रापि विषयविषय्याकारस्पंदनरूपखेदापनोदनार्थ जीवः परात्मन्यैक्यमवाप्य ब्रह्मानंदस्वरूपमेंतीत्याह, तदिति ।

तच्छूमस्यापनुत्त्यर्थं जीवो धावेत्परात्मनि ।
तेनैक्यं प्राप्य तत्रत्यो ब्रह्मानन्दः खयं भवेत् ॥ ४५॥

 तच्छूमस्य त्रिपुटीकृतस्यापनुत्त्यर्थं निवारणार्थं जीवः परात्मनि स्वरूपे धावेत् तेन परात्मन्यैक्यं प्राप्य “सता सोम्य तदा संपन्नो भवती”ति (छाम्.६.८.१) श्रुतेः तत्रत्यस्तत्र सुषुप्तौ स्थितस्सन् स्वयं ब्रह्मानंदो भवेत् ॥ ४५॥

 अत्रानेकानि श्रौतोदाहरणानि प्रदर्शयति, दृष्टेति ।

दृष्टान्ताः शकुनिः श्येनः कुमारश्च महानृपः।
महाब्राह्मण इत्येते सुप्त्यानन्दे श्रुतीरिताः ॥ ४६ ॥

 शकुन्यादयो दृष्टान्तास्सुप्त्यानंदे धीवृत्त्यभावादनिश्चेयसत्ताकेऽस्य सौषुप्तिकानंदे श्रुतीरिताः श्रुत्या बोधिताः ॥ ४६ ॥

 दृष्टान्तविवरणे ’’ स यथा शकुनिः सूत्रेण प्रबद्धो दिशं दिशं पतित्वा- ऽन्यत्रायतनमलब्ध्वा बंधनमेवोपश्रयत ” इति (छां. ६. ८.२.श्रुतिप्रसिद्धं शकुनिदृष्टान्तमावाह, शकुनिरिति ।

शकुनिः सूत्रबद्धस्सन् दिक्षु व्यापृत्य विश्रमम् ।
अलब्ध्वा बंधनस्थानं हस्तस्तम्भाद्युपाश्रयेत् ॥ ४७ ॥

 शकुनिस्सूत्रबद्धस्सन् बंधनमोक्षाय दिक्षु इतस्ततो व्यापृत्य उड्डीयमानो विश्रममलब्ध्वा बंधनस्थानं हस्तस्तंभाद्याश्रयते ॥ ४७ ॥

 दृष्टान्तार्थं दार्ष्टान्तिके योजयति, जीवेति ।

जीवोपाधि मनस्तद्वद्धर्माधर्मफलाप्तये।
स्वप्ने जाग्रति च भ्रान्त्वा क्षीणे कर्मणि लीयते ॥ ४८॥

 तद्वत् जीवोपाधि मनः जीवस्योपाधिभूतं मनः धर्माधर्मफलाप्तये सुकृतदुष्कृतफलस्यानुभवाय स्वप्ने जाग्रति च भ्रान्त्वा उपभोगेन कर्मणि क्षीणे स्वोपा