पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

दानेऽज्ञाने लीयते । उपाधिनाशे तत्कृतजीवत्वमपि नश्यति । अतः स्वस्वरूपमेवैतीति भावः॥ ४८॥

 श्येनदृष्टान्तं दार्ष्टान्तिके योजयति, श्येन इति ।

श्येनो वेगेन नीडैकलंपटः शयितुं व्रजेत् ।
जीव: सुप्त्यै तथा धावेद्ब्रह्मानंदैकलंपटः ॥ ४९ ॥

 यथा श्येन आकाशेऽतिवेगेनोड्डीय परिपतनपरिश्रान्तः श्रयितुं नीडैकलंपटः कुलायमात्रमभिलष्येत्यर्थः व्रजेत् । तथा जीवोऽपि ब्रह्मानंदैकलंपटो ब्रह्मनंदमेवान्विच्छन् सुप्त्यै हृदयाकाशम् धावेत् । “तद्यथास्मिन्नाकाशे श्येनो वा सुपर्णोवा विपरिपस्य परिश्रान्तः संहृत्य पक्षौ स्वालयायैव द्रियते । एवमेवायं पुरुष एतस्मा आनंदाय धावति यत्र सुप्तो न कंचन कामं कामयते न कंचन स्वप्नं पश्यती"ति (बृ.४.३.१९) श्रुतेः ॥४९॥

 "स यथा कुमारो वा महाराजो वा महाब्राह्मणोवाऽतिघ्रीमानन्दस्य गत्वा शयीतैवमेवैष एतच्छेते" इति (बृ.२.१.१९.) श्रुतेरवशिष्टान् दृष्टान्तान् बालभूपालात्मकुशलान् त्रिभिर्विवृण्वन्नादौ कुमारदृष्टान्तमाह, अतिबाल इति ।

अतिबालः स्तनं पीत्वा मृदुशय्यागतो हसन् ।
रागद्वेषाद्यनुत्पत्तेरानंदैकस्वभावभाक् ॥ ५० ॥

 अतिबालोऽनुत्पन्नप्रत्यभिज्ञः स्तनन्धयः मातुःस्तनं पीत्वा मृदुशय्यागतो हसन्नकरणमन्दहासं कुर्वन् रागद्वेषाद्यनुत्पन्तैरानन्दविरोधिनो रागद्वेषादेरनुत्पत्तेरिति हेतोरानंदैकस्वभावभाग्भवति । स्वभावतः सुखस्वरूपमानंदमनुभवतीति भावः ॥ ५० ॥

 महाराजमुदाहरति, महाराज इति ।

महाराजस्सार्वभौमः संतृप्तस्सर्वभोगतः ।
मानुषानन्दसीमानं प्राप्यानंदैकमूर्तिभाक् ॥ ५१ ॥

 महाराजस्सार्वभौमः सर्वस्याभूमेरीश्वरश्चक्रवर्ती "तस्येश्वर” इत्यण् अनुशतिकादिषु पाठादुभयपदवृद्धिश्च । "यस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादि"ति