पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४६३
कल्याणपीयूषव्याख्यासमेता

(तै.२.८.)स यो मनुष्याणां राद्ध: समृद्धो भवत्यन्येषामधिपतिः सर्वै मनुष्यकैभोगैः संपन्नतमः स मनुष्यणां परम आनन्दः (बृ.४.३.३३) इति श्रुत्यत्रानुसंधेये। सर्वभोगतस्सर्वस्यैकस्य मानुषनंदस्य भोगतोऽनुभवतः मानुषानंदसीमानं प्राप्यानंदैकमूर्तिभाक् आनन्दस्वरूप एव भवति ।। ५१ ॥

 ब्रह्मज्ञानिनमुदाहरति, महाविप्र इति ।

महविप्रो ब्रह्मवेदी कृतकृत्यत्वलक्षणाम् ।
विद्यानंदस्य परमां काष्ठां प्राप्यावतिष्ठते ॥ ५२ ॥

 महाविप्रो ब्रह्मनिष्ठो ब्रह्मवेदी कृतकृत्यत्वलक्षणां विद्यानन्दस्य विद्याया ज्ञानस्य य आनन्दस्तस्य परमामुत्कृष्टां काष्ठां कोटिं जीवन्मुक्त्यवस्थामित्यर्थः प्राप्यावतिष्ठते ॥ ५२॥

 पिण्डितार्थमाह, मुग्धेति ।

मुग्धबुद्धातिबुद्धानां लोके सिद्धा सुखात्मता ।
उदाहृतानामन्ये तु दुःखिनो न सुखात्मकाः ॥ ५३ ॥

 उपरिष्ठादुदाहृतानां मुग्धबुद्धातिबुद्धानां, मुग्घानां मध्ये बालः, बुद्धानां विवेकिनां मध्ये चक्रवर्ती, अतिबुद्धानां ज्ञानिनां मध्ये अनंदसाक्षत्कारवांश्चेत्यर्थः तेषां मध्ये सुखात्मत्रा सुखस्वरूपता लोके सिद्धा । अन्ये तु दुःखिन एव न सुखात्मकाः ॥ ५३ ॥

 कुमारादिवदस्य जीवस्यानंदैकपरत्वप्रदर्शिकां श्रुतिमुदाहरति, कुमारेति ।

कुमारादिवदेवायं ब्रह्मानंदैकतत्परः।
स्त्रीपरिष्वक्तवद्वेद न बाह्यम् नापि चान्तरम् ॥ ५४ ॥

 कुमारादिवत् बालमहीपालात्मकुशल इवायं जीवः सुषुप्तौ ब्रह्मानंदकतत्परः स्त्रीपरिष्वक्तवदंगनालिंगितः कामुक इव न बाह्यम् वेद, आन्तरं चापि न वेद । बाह्याभ्यान्तरज्ञानशून्यत्वात्सुखस्वरूपो भवति । “तद्यथा प्रियया स्त्रिया परिष्वक्तो न बाह्यम् किं च न वेद नान्तरमेवमेवायं पुरुषः प्राज्ञेनात्मना संपरिष्वक्तो न बाह्यं किं च न वेद नान्तरमि"ति (बृ.४.३.२१) श्रुतिरत्रानुसंधेया ॥ ५४ ॥ ।