पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/४९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४६४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 दृष्टान्तदार्ष्टान्तिकवाक्यगतौ बाह्याभ्यन्तरशब्दौ विवृणोति, बाह्यमिति ।

बाह्यं रथ्यादिकं वृत्तं गृहकृत्यं यथान्तरम् ।
तथा जागरणं बाह्यं नाडीस्थ: स्वप्न आन्तरः ॥ ५५॥

 यथा कामुकस्य विषये रथ्यादिकं वीथ्यादौ वर्तमानं वृत्तं व्यापारः बाह्यम् गृहकृत्यमान्तरम् । तथा जीवविषये जागरणं जाग्रदवस्था बाह्यं, नाडीस्थः जाग्रद्वासनावशान्नाडीषु प्रतीयमानः स्वप्न आन्तरो भवति ॥५५॥

 सौषुप्तिकस्वस्वरूपसुखनिमग्नस्यापगतोपाधिखेदस्य जीवस्य वास्तवस्वरूपप्रदर्शनाय "अत्र पिताऽपिता भवती"ति (बृ.४.३.२२) श्रुत्यर्थं संक्षिपति, पिते ति ।

पिताऽपि सुप्तावपितेत्यादौ जीवत्ववारणात् ।
सुप्तौ ब्रह्मैव नो जीवः संसारित्वासमीक्षणात् ॥ ५६ ॥

 पिताऽपि सुप्तावपिता पिता न भवति । अपेतपितृभावो भवतीत्याद्यर्थक “पिताऽपिता भवती"त्यादौ श्रुतिवाक्ये आत्मनो जीवत्ववारणात्सुप्तौ संसारित्वा समीक्षणात्संसारिभावस्यादर्शनाद्ब्रह्मैव नो जीवः तदा जीवत्वं नानुभूयत इत्यर्थः।। सुषुप्तावपगतपितृपुत्रादिसर्वसंसारसंबंधोऽविद्याकामकर्मविनिर्मुक्तः सर्वसंबंधातीतानंदस्वरूपो भवतीति भावः ॥ ५६ ॥

 संसारासमीक्षणविवरणाय निरुक्तश्रुतेरुत्तरार्थं संक्षिपति, पित्रिति ।

पितृत्वाद्यभिमानो यः सुखदुःखाकरस्स हि ।
तस्मिन्नपगते तीर्णः सर्वान् शोकान् भवत्ययम् ॥ ५७॥

 यः पितृत्वाद्यभिमानः 'ममायं पुत्रः, तस्याहं पिते'त्याकारकः स सुखदुःखाकरो हि । तस्मिन् संसारेऽपगते सत्ययं जीवः सर्वान् सांसरिकशोकान् पुण्यपापफलभूतानि सुखदुःखानीत्यर्थः । तीर्णो भवति । जीवस्य सांसारिकाभिमानाभावे सर्वदुःखाभाव इति भावः ॥ ५७ ॥

 ज्योतिर्ब्राह्मणस्य निगूढ़ार्थं “‘स्वप्ने स जीवः सुखदुःखभोक्ता स्वमायया