विलीनघृतवत्पश्चात्स्याद्विज्ञानमयो घनः । |
विलीनघृतवद्यथोष्णसंयोगेन विलीनं घृतं पुनश्शीतसंयोगेन घनीभवति तथा सुषुप्तावज्ञने विलीनो विज्ञानमयः पश्वात्सुषुप्त्यनन्तरं जागरिते घनः स्यात् घनीभवेत् । प्रबोधे विज्ञानमये घनीभूते सत्युपाधिविशिष्ट आत्मापि घनीभूत इव भवति । विलीनावस्थ आत्मैवानन्दमयशब्देन कथ्यते । एक एवात्मा निद्रा विलीनावस्थायामानन्दमयो भूत्वा सुखाज्ञाने अनुभवति । प्रबोधे विज्ञानमयो
भूत्वा ते स्मरति । एवं च तत्तदुपाधिकश्चिदाभास एक एव । भेदस्तूपाधिकृतः ।
तथा चानुभवितृत्वस्मर्तृत्वयोरेकनिष्ठतासिद्धेर्नोपाधिभेदो न सामाधिकरण्यविघटकत्वं च । कालभेदेन भिन्नदेशवर्तिन एकस्यैव देवदत्तस्यानुभवितृत्वस्मर्तृत्वदर्शनात् । न हि तत्र देशभेदस्सामानाधिकरण्यं विघटयति ॥ ६३ ॥
विलीनावस्थ आनंदमय इत्युक्तार्थे स्पष्टीकरोति, सुप्तीति ।
सुप्तिपूर्वक्षणे बुद्धिवृत्तिर्या सुखबिंबिता । |
सुप्तिपूर्वक्षणे "अत्माभिमुखधीवृत्तौ स्वानंदः प्रतिबिंबति" (११.४४.) इत्युक्तरीत्याऽभिमुखप्रतिबिंबितमुखमुकुर इव सुखबिंबिता सुखप्रतिबिंबिता या बुद्धिवृत्तिर्विद्यते सैव तद्बिम्बसहिता सुखप्रतिबिंबसहिता ततो निद्रावस्थायां लीना सत्यानंदमयो भवति ॥ ६४ ॥
विज्ञानमयस्य स्मरणोपपत्तये आनन्दमयस्य तदेकरूपत्वानुभवं प्रदर्शयति अन्तर्मुख इति ।
अन्तर्मुखो य आनन्दमयो ब्रह्ममुखं तदा । |
अन्तर्मुखः सुखप्रतिबिंबयुतान्तर्मुखबुद्धिवृत्तिजन्यसंस्कारसहिताज्ञानोपाधिको य आनंदमयः सः तदा सुषुप्तिसमये चिद्बिम्बयुक्तानाभिश्चिदाभासेन युक्ताभिरज्ञानो-