पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४६९
कल्याणपीयूषव्याख्यासमेता

 श्रुत्यर्थसंयोजनधिया तत्रत्यानां "एकीभूतः, प्रज्ञानघनः, चेतोमुख," इति शब्दानामर्थमधस्तात् क्रमशो विवृण्वन् एकीभूतपदेन बोधितमेकीभावं दर्शयति, विज्ञानेति ।

विज्ञानमयमुख्यैर्यो रूपैर्युक्तः पुराऽधुना ।
स लयेनैकतां प्राप्तो बहुतंडुलपिष्टवत् ॥ ६९॥

 पुरा जाग्रत्स्वप्नयोः य आत्मा विज्ञानमयमुख्यैर्विज्ञानं बुद्धिस्तेनोपलक्ष्य- माणस्तन्मयस्तत्प्रभृतिभीरूपैः ‘स वा अयमात्मा ब्रह्म विज्ञानमयो मनोमय” इति (बृ.४-५) श्रुत्युक्तैर्धर्मैर्युक्तः उपाधिवशाद्युक्त इव विभाव्यमानः स्रोऽधुना सुषुप्तिसमये उपाधेर्लयेन बहुधा तंडुलपिष्टवदेकतां प्राप्तः ॥६९॥

 अनन्तरं प्रज्ञानघनशब्दं विवृणोति, प्रज्ञानानीति ।

प्रज्ञानानि पुरा बुद्धिवृत्तयोऽथ घनोऽभवत् ।
घनत्वं हिमबिंदूनामुदग्देशे यथा तथा ॥ ७० ॥

 पुरा जाग्रत्स्वप्नयोः प्रज्ञानांनि प्रज्ञानशब्दाभिधेया बुद्धिवृत्तयः घटादिगोचराः अथ सुषुप्तौ घनोऽभवत् । घटाद्यभावे चिद्रूपेणैकरूपोऽभवत् । तत्रोदा हरणमाह, घनत्वमिति । यथोद्देशे उत्तरदेशे हिमाबिंदूनां घनत्वं भवति तथा ॥७०॥

 सकलवृत्तीनामेकीभावरूपं प्रज्ञानघनत्वं वैदिकलौकिकव्यवहारेण विशदयति, तदिति।

तद्धनत्वं साक्षिभावं दुःखाभावं प्रचक्षते ।
लौकिकास्तार्किका यावद्दु:खवृत्तिविलोपनात् ॥ ७१ ॥

 तद्धनत्वं साक्षिभावं वेदान्तिनः प्रचक्षते । वेदान्तेषु साक्षिण एकत्वाभि- घानादेकीभावमभिदधति । तद्धनत्वमेव दुःखाभाव इति लौकिकास्तार्किकाः प्रचक्षते । तत्र कारणमाह,यावदिति । सुषुप्तौ यावद्दुःखवृत्सिविलोपनात् साकल्येन दुःखवृत्तीनां लयात् ॥ १ ॥

 चेतोमुखशब्दार्थमाचष्टे, अज्ञानेति ।