पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०२

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७०
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

अज्ञानबिंबिता चित् स्यान्मुखमानन्दभोजने ।
भुक्तं ब्रह्मसुखं त्यक्त्वा बहिर्यात्यथ कर्मणा ॥ ७२ ॥

 सुषुप्तावानंदभोजने स्वस्वरूपभूतस्यानंदस्यानुभवेऽज्ञानबिंबिता अज्ञानवृत्तौ प्रतिबिम्बिता चिन्मुखं प्रधानं भवति । चिदाभास एव तदनुभवे प्रधानं साधनमित्यर्थः । तर्हि "यूनिलब्धे तु युवतिर्जरठे रमते कथमि"ति न्यायमनुसृत्य सर्वदाऽऽनंद एव लग्नो भवेन्न तु जागराद्यभिमुखस्स्यादित्यत आह,भुक्तमिति । भुक्तमनुभूतं ब्रह्मसुखं त्यक्त्वाऽथ कर्मणा प्राग्जन्मकृतपुण्यपापरूपेण बहिर्याति स्वप्नजाग्रत्प्रपंचमाप्नोति ॥ ७२॥

 बहिर्यात्यथ कर्मणेत्यत्र कैवल्यश्रुतिं प्रमाणयति, कर्मेति ।

कर्म जन्मान्तरेऽभूद्यत्तद्योगाद्बुध्यते पुनः ।
इति कैवल्यशाखायां कर्मणो बोध ईरितः ॥ ७३ ॥

 जन्मान्तरे पूर्वस्मिन् जन्मनि यच्छेषरूपं धर्माधर्मलक्षणं कर्माभूत्तद्योगात्तत्संबंधात्पुनर्जीवो बुध्यते । सुषुप्तिं जहातीति कैवल्यशाखायां बोधः कर्मज इतीरितः । “पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः" (कै-१-१४) इति तत्रोक्तम् ॥ ७३ ॥

 सुषुप्तौ ब्रह्मानंदानुभवस्य लिंगमाह, कंचिदिति ।

कंचित्कालं प्रबुद्धस्य ब्रह्मानंदस्य वासना ।
अनुगच्छेद्यतस्तूष्णीमास्ते निर्विषयः सुखी ॥ ७४ ॥

 सुषुतेः प्रबुद्धस्य सौषुप्तिकब्रह्मानंदस्य वासना संस्कारः किंचित्कालमनु- गच्छेत् । तत्कथं ज्ञायत इत्यत आह, यत इति, यतः प्रबोधानंतरं निर्विषयो ऽप्यनधिगतविषयव्यापारोऽपि सुखी सन् कंचित्कालं तूष्णीमास्ते ॥ ७४॥

 पश्चात्तत्तूष्णींभावस्य भंगे कारणमाह, कर्मभिरिति ।

कर्मभिः प्रेरितः पश्चन्नानादुःखानि भावयन् ।
शनैर्विस्मरति ब्रह्मानंदमेषोऽखिलो जनः ॥ ७५ ॥