भ्यामनधिगम्यं सर्वात्मरूपं परं ब्रह्म को वेत्ति ॥ ७८ ॥
तर्हि भवद्वाक्येनैवाहं सुषुप्त्युत्तरकालिकमानंदं ब्रह्मेति वेदेति कुतोऽहं न जानामीति पृच्छन्तं परिहसति, जानामीति ।
जानाम्यहं त्वदुक्त्याऽद्य कुतो मे न कृतार्थता । |
गुरुशास्त्राभ्यामनावश्यकतैव स्यात्, यतस्त्वदुक्त्या तत्वं जानतस्तवोक्तया सौषुप्तिकं सुखं ब्रह्मेति वचनेनाद्य मे अहं ब्रह्म जानामीति कृतार्थता कुतो न स्यादिति चेत्प्राज्ञमन्यस्याप्राज्ञम् प्राज्ञमात्मानं मन्यमानस्य त्वादृशस्त्वत्सदृशस्य कस्यचिद्वृत्तान्तं शृणु ॥ ७९॥
तद्वृत्तान्तमेव कथयति, चतुरिति ।
चतुर्वेदविदे देयमिति श्रृण्वन्नवोचत ।। |
स्पष्टोऽर्थः ॥ ८०॥
यदि वेदानां संख्यापरिमितिज्ञानेनैव तत्स्वरूपज्ञानमसेत्स्यत्, तवापि सुप्तोत्थितस्य कंचित्कालमनुभूयते ब्रह्मानंद इति श्रवणमात्रेण तदसेत्स्यादित्याह, संख्येति ।
संख्यामेवैष जानाति न तु वेदानशेषतः । |
एष वेदानां संख्यामेव जानाति किं त्वशेषतो वेदान्न जानातीति यदि स्वयाम्गीक्रियते तर्हि त्वमप्येवं ब्रह्मशब्दश्रवणमात्रेण ब्रह्म वेत्सि न त्वशेषतः ॥ ८१॥
ननु भेदत्रयशून्येऽखंडैकरसस्स्वरूपे परे ब्रह्मण्यंशाभावेंऽशतो ज्ञानं साक- ल्येनाज्ञानमिति वक्तुमशक्यमित्याशंकते, अखंडेति ।
अखंडैकरसानन्दे मायातत्कार्यवर्जिते । |