पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४७३
कल्याणपीयूषव्याख्यासमेता

 स्पष्टोऽर्थः ॥ ८२॥

 नाशेषम् ब्रह्म वेत्सीत्यत्र विवक्षितमशेषत्वमविज्ञाय कृतस्य प्रश्नस्य विवक्षि ताशेषत्वप्रतिपादनेन समाधानविवक्षया ब्रह्म जानामीत्यत्र विकल्प्य पृच्छति, शब्देति ।

शब्दानेव पठस्याहो तेषामर्थं च पश्यसि ।
शब्दपाठेऽर्थबोधस्ते संपाद्यत्वेन शिष्यते ॥ ८३ ॥

 अखण्डैकरसानन्दं मायातत्कार्यवर्जितमित्यादिशब्दानेव तन्मात्रमेवेत्यर्थः , पठस्याहोस्वित्तेषामर्थंच पश्यसि ? आद्ये तेषामर्थबोधोऽर्थज्ञानं सम्पाद्यत्वेन शिष्यते । केवलशब्दश्रवणमात्रेणैव कृतार्थता तव नास्तीति भावः ॥ ८३ ॥

 अर्थज्ञानमपि तदुपयोगिशास्त्रबलाज्जातमेवेति तदपि नावाशिष्टमिति पृच्छ न्तमवशेषं दर्शयति, अर्थं इति ।

अर्थे व्याकरणाद्बुद्धे साक्षात्कारोऽवशिष्यते ।
स्यात्कृतार्थत्वधीर्यावत्तावद्रुमुपास्व भोः ।। ८४ ॥

 भोश्चतुर्वेदाभिज्ञंमन्य, व्याकरणात्तत्सहायेन, व्याकरणशब्देनात्र वेदार्थावबोधकानि सर्वशास्त्राण्युपंलक्ष्यन्ते; अर्थे बुद्धे “अस्ति ब्रह्मे”ति परोक्षज्ञाने सिद्धेऽपि तस्यापरोक्षेणाहं ब्रह्मास्मीति साक्षात्कारोऽवीशष्यते । तदवशेषात्तव कृतार्थता नास्तीति भावः । सिद्धे साक्षात्कारेऽशेषं ब्रह्म ज्ञातं भवति । तदैव ते कृतार्थता। अतो यावत्कृतार्थत्वधीस्स्यात्, तावद्गुरुमुपास्व । आचार्यचरणपरायणस्यैवापरोक्ष- साक्षात्कारभाग्यभाजनतेति तदैव कृतार्थत्वज्ञानम् । तदैव ज्ञानस्य संपूर्णता । तादृशसम्पूर्णत्वमेव पूर्वत्र विवक्षितमिति भावः ॥ ८४॥

आनन्दभेदनिरूपणम् ।

 चतुरुत्तरसप्ततितमश्लोकोक्तब्रह्मानन्दवासनायाः व्याप्तिमाह, आस्तामिति ।

आस्तामेतद्यत्र यत्र सुखं स्याद्विषयैर्विना।
तत्र सर्वत्र विद्ध्येतां ब्रह्मानन्दस्य वासनाम् ॥ ८५ ॥

60