पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४७४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 प्रसक्तानुप्रसक्त्या प्राप्तोऽयं विषय आस्ताम् । यत्र यत्र तूष्णीम्भावादिः समये विषयैर्विना विशेषेण सिन्वन्ति बंध्नति पुरुषमिति विषयाः, तैर्विना स्रगाद्याकाराकारितवृत्तीर्वित्ता सुखं स्यात्तत्र सर्वत्रैतां ब्रह्मानन्दस्य वासनां विद्धि । विषयाजन्यत्वे सति केवलाहंकारावृतत्वे सति सुखत्वं वासनानन्दस्य लक्षणम् । अत्रेदं बोध्यम् । वासनानंदनिजानंदयोर्ब्रह्मानन्दत्वाविशेषेऽपि यो ह्यानन्दो मायाहंकाराद्युपाधिरहितस्त्रिपुटीशून्य: स्वयंप्रकाशमानो वर्तते स एव ब्रह्मानन्दशब्देन व्यवह्रियते । सत्यामपि त्रिपुट्यां ज्ञातृज्ञेयास्पर्शेनैव समाधौ योगिभिरनुभूयमानो निजानन्द इति मुख्यतया व्यवह्रियते । औदासीन्यावस्थायामहंसुखीत्येवं ज्ञात्रादि कमुल्लिख्यानुभूयमानो वासनानन्द इत्युच्यते । अत्रायं निर्गलितोऽर्थः। सर्वद्वैतनाशे स्वप्रकाशतयाऽनुभूयमान आनन्दो ब्रह्मनन्दः। सत्यपि द्वैते तदनुल्लिख्यानुभूयमानो ब्रह्मनन्द एव निजानन्दः। अहं सुखीत्येवं रीत्या द्वैतमप्युलिख्यौदासीन्यावस्थाया मनुभूयमानो ब्रह्मानन्द एव वासनानन्दः। तेन निजानन्दवासनानन्दयोर्ब्रह्मानन्दरूपतैव वस्तुतो नातिरिक्ततेति । आत्मानंदाद्वैतानन्दयोस्तु भेदेनोपादानं शिष्यबोधनार्थं कूटस्थब्रह्मणोरेव भेदं परिकल्प्येति बोध्यम् ॥८५॥

 १२-७३ श्लोकेषु ब्रह्मानन्दः, ७४-८५ श्लोकेषु वासनानन्दश्च प्रदर्शितौ। विषयानन्दश्च परिशिष्टः। तद्विवक्षया चतुश्चत्वारिंशत्तमश्लोकोक्तार्थानुवादपूर्वकम् तत्स्वरूपं निरूपयति, विषयेष्विति ।

विषयेष्वपि लब्धेषु तदिच्छोपरमे सति ।
अन्तर्मुखमनोवृत्तीवानन्दः प्रतिबिंबति ॥ ८६ ॥

 लब्धेषु विषयेषु स्रगादिषु अपि तदिच्छोपरमे सति तेषु विषयेष्विच्छायास्तल्लाभेनोपरमे सत्यन्तर्मुखमनोवृत्तावभीप्सितविषयोपलब्धेः प्राक् बहिर्मुखा, या, मनोवृत्तिस्साऽभीप्सितार्थोपलब्धेरिच्छाभावेऽन्तर्मुखा भवति । तथाभूतायां मनोवृत्तावानन्दः प्रतिबिंबति । अयं प्रतिबिंबस्वरूपो विषयानन्द इत्युच्यते ॥८६॥

 फलितमाह, ब्रह्मानन्द इति ।

ब्रह्मानन्दो वासना च प्रतिबिंब इति त्रयम्।