अन्तरेण जगत्यस्मिन्नानन्दो नास्ति कश्चन ॥ ८७ ॥ |
एवं प्रकारेणानंदः सुषुप्तौ स्वयंप्रकाशतया भासमानो ब्रह्मानन्दः, सुप्तोत्थितस्य तूष्णींभावसमये तद्वासनजनितं सुखं वासनानन्दःअभीप्सितार्थाप लब्धेरिच्छोपरमेऽन्तर्मुखमनोवृत्तौ प्रतिबिंबो विषयानन्द इति त्रयं त्रिविधं भवति । एतदन्तरेणास्मिन् जगत्यन्यः आनन्दः कश्चन नास्ति ॥ ८७॥
ननु ब्रह्मानंदाध्यायेऽन्यानन्दप्रसङ्गोऽसंगत इत्याशंक्य तयोर्ब्रह्मानन्दज न्यत्वान्नासंगतिरित्याह, तथेति ।
तथा च विषयानन्दो वासनानन्द इत्यमू । |
स्पष्टोऽर्थः ॥ ८८ ॥
जाग्रति ब्रह्मानन्दावाप्त्युपायकथनम् ।
वृत्तानुकथनपूर्वकमुत्तरग्रंथमवतारयति, श्रुतीति ।
श्रुतियुक्त्यनुभूतिभ्यः स्वप्रकाशचिदात्मके । |
श्रुतियुक्त्यनुभूतिभ्यः “सुषुप्तिकाले सकले विलीने तमेवाभिभूतः सुखरूपमेती" त्यादिभिः श्रुतिभिः, 'सुखमस्वाप्स'मिति स्मरणान्यथानुपपत्त्यया कल्पितानुभव विषयत्वरूपया युक्त्याऽनुभूत्या च सुप्तिकाले स्वप्रकाशचिदात्मके स्वयंप्रभाचैतन्यस्वरूपे ब्रह्मानंदे सिद्धे सत्यन्यथा जाग्रदवस्थायां ब्रह्मानन्दावगमोपायं श्रृणु॥८९
आनंदावगत्युपायादिदर्शयिषया तदुपोद्घातरूपेणादौ जीवस्य स्वप्रजाग्रदवस्थाद्वयप्राप्तिं दर्शयति य इति ।
य आनन्दमयः सुप्तौ स विज्ञानमयात्मताम् । |
सुप्तैौ विलयसमय आनन्दमय इति य उच्यते स बुद्ध्युपाधिवशाद्विज्ञानमयात्मतां तत्स्वरूपं गत्वा स्थानभेदतः स्वप्नं प्रबोघं वा प्राप्नोति ॥ ९०॥