जाग्रत्स्वप्नसुषुप्तिषु जीवस्याश्रयस्थानान्याह, नेत्रेति ।
नेत्रे जागरणं कंठे स्वप्नः सुप्तिर्हृदंबुजे । |
नेत्रे जागरणं जाग्रदवस्था, कण्ठे स्वप्नं, हृदंबुजे सुप्तिश्च, तिष्ठन्ति । अत्र नेत्रपदं । सर्वदेहोपलक्षणमित्याह, आपादेति । आपादमस्तकं देहं व्याप्य चेतनो जागर्ति जागरवान् भवति ॥ ९१॥
जीवस्य जागरे आपादमस्तकदेहव्यापकत्वं सदृष्टान्तं विशदयति, देहेति ।
देहतादात्म्यमापन्नस्तप्तायःपिण्डवत्ततः। |
तप्तायःपिण्डवत् यथा तप्तेऽयःपिण्डेSग्निरयःपिण्डतादाम्यमाप्नोति, तथा जीवोऽपि देहतादात्म्यं देहोहमिति भावमापन्नः, ततोऽहं मनुष्य इत्येवं निश्चित्यैवावतिष्ठते प्रवर्तते । अयःपिण्डतादात्म्यमापन्नो वह्निर्यथाऽयःपिण्डं सर्वं व्याप्नोति तथा देहतादात्म्यमापन्नो जीवोऽपि सर्व देहें व्याप्य स्थित इति भावः ॥ २॥
देहतादात्म्यंगतस्य जीवस्यावस्थामाह, उदासीन इति ।
उदासीनः सुखी दुःखीत्यवस्थात्रयमेत्यसौ । |
देहतादात्म्यम्गतो असौ जीव उदासीन:,सुखी, दुःखीत्यवस्थात्रयमेति । तत्र सुखदुःखयोस्सहेतुकत्वमौदासीन्यस्याहेतुकत्वं चाह, सुखेति । सुखदुःखे कर्मकार्ये जन्मान्तरकृतपुण्यपापरूपकर्मणः संभूते । औदासीन्यं स्वभावतः प्राप्तम् ॥९३॥
वासनानन्दस्वरूपविचारः ।
सुखदुःखयोर्निमित्तकल्पितं द्वैविध्यमाह, बाह्येति ।
बाह्यभोगान्मनोराज्यात्सुखदुःखेऽभिधा मते ।। |