पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४७७
कल्याणपीयूषव्याख्यासमेता

 बाह्यभोगात्स्रगादिबाह्यविषयाणां भोगात् । मनोराज्यान्मानसिकभावनातश्च सुखदुःखे द्विधा मते । सुखदुःखान्तरालेषु तयोर्मध्यकालेषु तूष्णीमवस्थितिरौदासीन्यं भवेत् ॥ ९४॥

 जाग्रदवस्थायां विद्यमानमौदासीन्यमेव स्वस्वरूपभूतानन्दाभिव्यंजकमित्याह, नेति ।

न कापि चिन्ता मेऽस्त्यद्य सुखमास इति ब्रुवन् ।
औदासीन्ये निजानन्दभानं वक्त्यखिलो जनः ॥ ९५॥

 अद्य मे न काऽपि चिन्ताऽस्ति, सुखमासे इति ब्रुवन्नौदासीन्ये निजानन्दभानं स्वस्वरूपानन्दस्फुरणमखिलो जनो वक्ति ॥ ९५॥

 औदासीन्ये भासमान आनन्दो बासनामात्र एव न तु मुख्यो निजानन्द इत्याह, अहमिति ।

अहमस्मीत्यहंकारसामन्याच्छादितत्त्वतः ।
निजानन्दो न मुख्योऽयं किंत्वसौ तस्य वासना ॥९६॥

 औदासीन्ये भासमान आनन्दोऽयं मुख्यो निजानन्दो न, किन्तु असौ तस्य मुख्यनिजानन्दस्य वासना, कुतः ? अहमस्मीत्यहंकारसामान्याच्छादितत्वतः, प्रत्येकव्यक्तिमनुल्लिख्य सुख्यस्मी' ति स्वसुखावबोधके वाक्ये उल्लिख्यमानं यदहंकारसामान्यं तेनाच्छादितत्वात् । उपाधिकृतजीवभावसहितत्वादित्यर्थः ॥ ९६॥

 तत्र दृष्टान्तमाह, नीरेति ।

नीरपूरितभाण्डस्य बाह्ये शैत्यं न तज्जलम् ।
किन्तु नीरगुणस्तेन नीरसत्ताऽनुमीयते ॥ ९७ ॥

 नीरपूरितभाण्डस्य बाह्ये हस्तस्पर्शेनानुभूयमानं यच्छैत्यं तज्जलम् न । किन्तु नीरगुणः। तेन शैत्येन घटे नीरसता नीरस्य विद्यमानताऽनुमीयते । जलवानयं घटः शैत्यवत्वात् । यथा नीरधृतिरिति प्रयोगः ॥ ९७ ॥

 एवमेव वामनानन्दान्निजानन्दोऽनुमीयत इत्याह, यावदिति ।