पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५११

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४७९
कल्याणपीयूषव्याख्यासमेता

 नन्वेवं सति निजानन्दोऽन्यानन्दोऽस्तु । किमुच्यते वासनानन्द इति । वासनानन्द इत्युक्तौ ब्रह्मानन्दवासनेत्यर्थः । अस्य ब्रह्मानन्दत्वे प्रमिते ततः किंचिद्वैलक्षण्ये ब्रह्मानन्दवासनेति वक्तुं युक्तमित्याशंक्य तत्र प्रमाणमस्तीत्याह, नेति ।

न द्वैतं भासते नापि निद्रा तत्रास्ति यत्सुखम् ।
स ब्रह्मानन्द इत्याह भगवानर्जुनं प्रति ॥ १००॥

 यस्मिन् काले द्वैतं न भासते निद्रापि नास्ति तत्र तस्मिन् काले यत्सुखमनुभूयते स ब्रह्मानन्द इति भगवानर्जुनं प्रत्याह । एवं च निद्राप्राक्कालिकस्य वासनानन्दस्य ब्रह्मानन्दत्वेन भगवता व्यवहारादहंकारानाच्छादितस्यैव मुख्यब्रह्मानन्दत्वेन मुख्यत्वाभावाद्गौणोऽयं व्यवहारो भगवता कृतमित्यवश्यमभ्युपेयमिति भावः ॥ १०० ॥

 उक्तार्थप्रतिपादकानि भगवद्वाक्यानि प्रदर्शयति, शनैरिति ।

शनैश्शनैरुपरमेद्बुध्या धृतिगृहीतया ।
आत्मसंस्थं मनः कृत्वा न किंचिदपि चिन्तयेत् । १०१ ॥

 धृतिगृहीतया धैर्येण निगृहीतया बुद्ध्या विषयेभ्यः शनैश्शनैः कुशाग्रेण जलबिंदुविश्लेषणपूर्वकमुच्छोषितोदधेरिवोपरमेत् । मन आत्मसंस्थमात्मनि स्वस्वरूपे संस्थितं "आत्मैव सर्वे न ततोऽन्यत्किकिंचिदस्तीत्ये"वं कृत्वा किंचिदपि न चिंतयेत्। एष योगस्य परमोऽवधिः (गी. ६–२५) ॥ १०१॥

 अस्य संपादनोपायमाह, यत इति ।

यतो यतो निश्चरति मनश्चंचलमस्थिरम् ।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ॥ १०२ ॥

 मन आत्मसंस्थं कर्तुं यतमानो योगी स्वभावतश्चंचलमत एवास्थिरं विषयाद्विषये गमनशीलं मनः यतो यतो यस्माद्यस्मान्निमित्ताच्छब्दादेर्निश्चरति बहिर्निर्गच्छति ततस्ततस्तस्माच्छब्दादेर्नियम्यात्मन्येव स्खस्वरूप एतन्मनो वशं