नयेत् (गो. ६-२६)॥ १०२ ॥
एवं कृते फलितमाह, प्रशान्त इति ।
प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् । |
अकल्मषमपेताधर्मादिदोषत्वान्निर्मलं अतएव शान्तरजसं शान्तं रजो रजोगुणकार्यभूतं मोहादि यस्य तं विलोनमनस्कं, योगाभ्यासेन क्रमशः सर्ववृतिविलये सति निरिंधनवह्निवत्स्वत एव मनो विलयं यातीति भावः । अत एव ब्रह्मभूतं ब्रह्मभावमापन्नमेनं जीवन्मुक्तं योगिनमुत्तमं सुखं निरतिशयं स्वरूपमुपैति । अत्रोपगमनं स्वस्वरूपेणावस्थितिरेव ॥१०३॥
एतर्थप्रतिपादकांश्छलोकांश्चतुरः पठति, यत्रेति ।
यत्रोपरमते चित्तं निरुद्धं योगसेवया। |
यत्र यस्मिन् काले योगसेवया योगाभ्यासेन वृत्तिनिरोधनान्निरुद्धे विषयेभ्योऽपकृष्टं निवारितप्रचारं चित्तमुपरमते निवातदीपवदचञ्चलं भवति; यत्र चात्मनैवमुपरतान्तःकरणेनात्मानं स्वयंप्रकाशमद्वितीयं परमात्मानं पश्यन्नुपलब्धं कुर्वन्नात्मनि तुष्यति स्वस्मिन्नेव तृप्तो भवति (गी. ६–२०) ॥ १०४ ॥