यत्र यस्मिन् काले आत्मनि स्थितोऽयं योगी आत्यन्तिकं निरतिशयमतीन्द्रियं बुद्धिग्राह्यमिन्द्रियनिरपेक्षयाऽन्तर्मुखया बुद्ध्या एव ग्राह्यं यत्सुखं तद्वेत्त्यनुभवति, किं च यत्र यस्मिन् काले आत्मनि स्थितोऽयं ज्ञानी तत्त्वतस्स्वस्वरूपान्न चलत्येव । (गी.६.२१.) ॥१०५॥
किं च यं स्वस्वरूपं लब्ध्वा ततोऽपरं लाभमधिकं न मन्यते "आत्मलाभान्न परं विद्यत" इत्यभियुक्तोक्तेः, यस्मिन् स्थितो गुरुणा विषासिसमुद्रपतनादि कृतेन दुःखेनापि न विचाल्यते नान्यथावृत्तिर्भवति, (गी,६.२२.) ॥ १०६ ॥
तं दुःखसंयोगवियोगं सर्वदुःखसंबन्धपरित्यागं योगसंज्ञितं योग इति संज्ञा नाम यस्य तं विद्याद्विजानीयात् । स योगोऽनिर्विण्णचेतसा निर्वेदविरहितेन मनसा निश्चयेन विश्वासदार्ढ्येन योक्तव्योऽनुष्ठेयः। (गी.६.२३.) ॥१०७॥
उक्तमर्थमुपसंहरति, युञ्जन्निति ।
युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः । |
विगतकल्मषोऽपेतदुरितो योगी ध्याननिष्ठ एवं यथोक्तक्रमेण सदा सततमात्मानं स्वस्वरूपे युञ्जन् संयोजयन् ब्रह्मसंस्पर्शं। ब्रह्मसंबंध्यत्यन्तमुत्कृष्टं सुखमानन्दं सुखेनानायासेनाश्नुते । (गी-६.२५) ॥ १०८ ॥
माण्डूक्यगौडपादकारिका (३.४१.) पठनेन शनैश्शनैरनायासेन योगाभ्यासः कर्तव्य इत्याह, उत्सेक इति ।
उत्सेक उदधेर्यद्वत् कुशाग्रेणैकबिंदुना । |
कुशाग्रेणोद्धृतेनैकबिन्दुनैकैकेन बिन्दुनोदधेरुत्सेको बहिस्सेचनं यद्यत्क्रमशो भवेत्तद्वन्मनसो निग्रहोऽपरिखेदतोऽनायासेनाभ्यस्यमानः कालान्तरे भवेत् ।। अपरिखेदत इत्युक्तिः मातृवदस्मिन् कला इतिवद्यतिरेकदृष्टान्तत्वभ्रमनिरासार्था॥१०९॥