पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१४

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८२
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 गीताशास्त्रप्रतिपादितोऽयमेवार्थं मैत्रायणीयशाखायामप्युपदिष्ट इत्याह, बृहद्रथस्येति ।

बृहद्रथस्य राजर्षेश्शाकायन्यो मुनिः सुखम् ।
प्राह मैत्राख्यशाखायां समाध्युक्तिपुरस्सरम् ॥ ११० ॥

 शाकायन्यस्तन्नामको मुनिः "दुःखेष्वनुद्विग्नमनास्सुखेषु विगतस्पृहः वीत" रागभयक्रोधः स्थितधीर्मुनिरुच्यत" इति (गी.२.५६) लक्षणलक्षितो बृहद्रथस्य राजर्षेर्ब्रह्मसुखं समाध्युक्तिपुरस्सरं मैत्राख्यशाखायां प्राह ॥ ११०॥

 तत्प्रकारप्रतिपादकान् श्लोकान्पठति, यथेति ।

यथा निरिन्धनो वह्निः स्वयोनावुपशाम्यति ।
तथा वृत्तिक्षयाच्चित्तं स्वयोनावुपशाम्यति ॥ १११ ॥

 स्वयोनौ सुक्ष्मतेजसि वृत्तिक्षयान्निरोधसमाध्यभ्यासेन सर्ववृत्तीनां नाशत्स्वयोनौ सत्वमात्रे उपशाम्यति । (तै. ४.१.)स्पष्टमन्यत् ॥ १११ ॥

 स्वयोनादुपशान्तेः फलमाह,स्वेति ।

स्वयोनावुपशान्तस्य मनसः सत्यकामिनः ।
इन्द्रियार्थविमूढस्यानृताः कर्मवशानुगाः ॥ ११२ ॥

 सत्यकामिनः सत्यम् कामयति इति सत्यकामः तत्कामनाशीलस्तस्य ब्रह्मावात्त्युकंठस्यात एव स्वयोनावुपशान्तस्य वृतिक्षयादिन्द्रियार्थविमूढस्य इन्द्रियैरर्थ्यन्ते विषयोक्रियन्ते शब्दादय इन्द्रियार्थास्तेषु विमूढस्य विमुखस्य मनसो अनृतां असत्यभूता इन्द्रियार्थाः कर्मवशानुगाः प्रारब्धमनुसृत्य प्रसरन्ति । न तु तस्य भोगजनका इत्यर्थः ॥११२॥

 भोगजनकत्वस्वभावानां भोगजनकत्वाभावः कथं स्यादित्याशङ्क्याह, चित्तमिति ।

चित्तमेव हि ससारस्तत्प्रयत्नेन शोधयेत् ।
यच्चित्तस्तन्मयो मर्त्यो गुह्यमेतत्सनातनम् ॥ ११३ ॥