चित्तमेव संसारस्तकल्पितत्वात्, अतः प्रयत्नेन तच्चित्तं शोधयेत् वृद्धि राहित्येनैकाग्रं कुर्यात् । ननु चित्तवृत्तिनिरोधे कथमात्मलाभः स्यादित्याशंक्याह, यदिति । मर्त्यो मरणशीलो यच्चित्तस्तन्मयो भवेत् तस्य चित्तं यत्र लग्नं भवति तद्रूपमाप्नोति । "यच्चितस्तेनैष प्राणमायाति" (प्रश्न. ३. १०) "यथाकारी यथा चारी तथाभवति" (बृ. ४. ६. ५) इत्यादिशास्त्रतः। जीवस्य बंघकं मानसं जगदित्युक्तं पूर्वमेव । (४.३५.) ॥ ११३॥
चित्तनैर्मल्येनासंख्येयजन्मसमुपार्जितस्यापि कर्मणः संक्षयः तेनाक्षय सुखावाप्तिरित्याह,चित्तेति ।
चित्तस्य हि प्रसादेन हन्ति कर्म शुभाशुभम् । |
प्रसन्नात्मा चित्तस्य प्रसादेन तदुपलक्षितब्रह्मानुसंधानेन शुभाशुभं कर्म हन्ति नाशयति “ तद्यथेषीका तूलमग्ने प्रोतः प्रदूयेतैवं हाऽस्य सर्वे पाप्मानः प्रदूयन्ते” (छां.५.२४.३) इति श्रुतेः । आत्मनि स्वस्वरूपभूते परे ब्रह्मणि स्थित्वाऽक्षय्यं सुखमश्नुते ॥ ११४॥
अमुमेवार्थं द्रढयति, समेति ।
समासक्तं यथा। चित्तं जन्तोर्विषयगोचरे । |
जन्तोर्जननशीलस्य अविद्यावशाद्देहाभिमानयुक्तस्य जीवस्य चित्तं विषय गोचरे इन्द्रियप्रचारभूमौ यथा समासक्तं दृढं लग्नं तथैव ब्रह्मणि समासक्तं यदि स्यात् तत्तदा को बन्धनान्न मुच्येत ? सर्वोऽपि मुच्येत एवेति भावः ॥ ११५ ॥
मनसः परस्परविरुद्धबंधमोक्षकारणत्वोपपादनाय मनसो द्वैविध्यमाह, मन इति ।
मनो हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । |
स्पष्टोऽर्थः ॥ ११६ ॥