पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 द्विधाभूतं मन एव बन्धमोक्षहेत्वित्याह, मन इति ।

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।।
बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥११७॥

 पूर्वार्धो व्याख्यातपूर्वः । कदा बन्धस्य कारणं कदा मोक्षस्येत्यत आह, बन्धायेति, निर्विषयं मिथ्येति ज्ञानान्निर्गता विषया यस्मात्तन्मुक्त्तै भवति। विषयासक्तम् बन्धाय भवति ॥ ११७ ॥

 "प्रसन्नात्माऽऽत्मनि स्थित्वा सुखमक्षय्यमश्नुत”इत्युक्तमर्थं श्रुत्या प्रपञ्चितमाह, समाधीति ।

समाधिनिर्धूतमलस्य चेतसो निवेशितस्यात्मनि यत्सुखं भवेत् ।
न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते ॥११८॥

 समाधिनिर्धूतमलस्य चित्तवृत्तिनिरोधेनापास्तविषयासक्तेः आत्मनि प्रत्यग्रूपे निवेशितस्य अहंब्रह्मास्मीत्येतावन्मात्रज्ञानवतश्चेतसो यत्सुखं भवेत् तत् गिरा वर्णयितुं न शक्यते । किन्तु तदा तत्सुखानुभवसमये तत्स्वरूपभूतं सुखं स्वयं अन्तःकरणेनैव गृह्यते समाधावन्तःकरणस्य लयाभावात् ॥११८॥

 ननु समाघेस्सातत्यदौर्लभ्यात्कथं तेन ब्रह्मानन्दनिश्चयः संपद्यत इत्याशंक्याह, यदिति ।

यद्यप्यसौ चिरं कालं समाधिदुर्लभो नृणाम् ।
तथापि क्षणिको ब्रह्मानंदं निश्चाययत्यसौ ॥ ११९ ॥

 यद्यपि समाधावात्मनि सुखस्य सत्त्वेऽप्यसौ समाधिर्तृणां चिरं कालं दुर्लभः क्षणकालमात्रमेवानुवर्तते, तथाप्यसौ क्षणिकस्समाधिर्ब्रह्मानन्दं निश्चायति। समाधावनुभूयमानवासनानन्दद्वारा ब्रह्मनन्दमनुमापयतीति भावः ॥ ११९ ॥

ब्रह्मानन्दस्य सातत्यविचारः।

 क्षणमात्रस्फुरितेन कदाप्यननुभूतपूर्वेण निजानन्दरूपेण हेतुना कथं ब्रह्मानन्दानुभूतिर्जायते हेतोरनिश्चितत्वादित्याशङ्कां परिहरति, श्रद्धालुरिति ।