पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४८५
कल्याणपीयूषव्याख्यासमेता

श्रद्धालुर्व्यसनी योऽत्र निश्चिनोत्येव सर्वदा।
निश्चिते तु सकृत्तस्मिन् विश्वसित्यन्यदाप्ययम् ॥ १२० ॥

 यः श्रद्धालुर्व्यसनी तद्ज्ञानेऽभिनिवेशवानत्र समाधौ सर्वदा ब्रह्मानन्दं निश्चिनोत्येव । ननु भवतु निश्चयः, तथापि तस्य क्षणिकत्वातदज्ञानकाले ब्रह्मानन्दस्य सत्त्वे सिद्धेऽपि तत्सार्वदिकं न स्यादित्याशंक्याह,निश्चित इति । अस्मिन् ब्रह्मानन्दे सकृन्निश्चिते त्वयं सकृन्निश्चयवान् पुरुषोऽन्यदापि समाधीतरकालेऽपि । तस्मिन् ब्रह्मानन्दस्य सत्वे विश्वसिति ॥ १२०॥

 एवं ब्रह्मानन्दसत्ताविषये जातविस्रम्भ उदासीनसमयेऽपि ब्रह्मानन्द वासनामपहाय मुख्यमानन्दं भावयतीत्याह,तादृगिति ।

तादृक्पुमानुदासीनकालेऽप्यानन्दवासनाम् ।
उपेक्ष्य मुख्यमानन्दं भावयत्येव तत्परः ॥ १२१ ॥

 स्पष्टोऽर्थः ॥ १२१॥

 अत्र दृष्टान्तमाह, परेति ।

परव्यसनिनी नारी व्यग्राऽपि गृहकर्मणि ।
तदेवास्वादयत्यन्तः परसङ्गरसायनम् ॥ १२२ ॥

 व्याख्यातपूर्वः (९.९४.) ॥ १२२॥

 दृष्टान्तं दार्ष्टान्तिके योजयति, एवमिति ।

एवं तत्वे परे शुद्धे धीरो विश्रान्तिमागतः।
तदेवास्वादयत्यन्तर्बहिर्व्यवहरन्नपि ॥ १२३ ॥

 स्पष्टोऽर्थः । धीरो वक्ष्यमाणलक्षणः ॥ १२३ ॥

 किं नाम धीरत्वमित्यत आह, धीर इति ।

धीरत्वमक्षप्राबल्येऽप्यानंदास्वादवाञ्छया ।
तिरस्कृत्याखिलाक्षाणि तच्चिन्तायां प्रवर्तनम् ॥ १२४ ॥

 अक्षप्राबल्येऽपि पुरुषाकर्षणे इन्द्रियाणां प्राबल्येऽप्यानन्दास्वादवाञ्छया