पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४८६
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

स्वस्वरूपसुखसन्धाने उत्कटेच्छयाऽखिलाक्षाणि तिरस्कृत्य तच्चिन्तायां तद्ब्रह्मसुख- स्यानुसन्धानचिन्तायां प्रवर्तनं यदस्ति तद्धीरत्वमित्यर्थः ॥१२४॥

 अत्र विश्रमस्वरूपं विशदयति, भारेति ।

भारवाही शिरोभारं मुक्त्वाऽऽस्ते विश्रमं गतः ।
संसारव्यापृतित्यागे तादृग्बुद्धिस्तु विश्रमः ॥ १२५ ॥

 स्पष्टः पूर्वार्धः। संसारख्याष्टतित्यागे संसारव्यापारविरामे । तादृग्बुद्धि संसारव्यापारभारो मम श्रमस्य कारणं, स च मया त्यक्त इति या बुद्धिस्सैव विश्रमः । स्पष्टोऽर्थः ॥ १२५॥

जाग्रति ब्रह्मानन्दावाप्तिविचारः।

 विश्रान्तिप्राप्तेः फलमाह, विश्रान्तिमिति ।

विश्रान्ति परमां प्राप्तस्त्वौदासीन्ये यथा तथा ।
सुखदुःखदशायां च तदानन्दैकतत्परः ॥ १२६ ॥

 परमामुत्कृष्टां विश्रान्तिं प्राप्तः पुरुष औदासीन्ये यथा मुख्यमानन्दं भावयति तथा सुखदुःखदशायां जाग्रति च तदानन्दैकतत्परो ब्रह्मानन्दस्वरूपभावनापरो भवति ॥ १२६॥

 नन्विष्टाप्राप्तिहेतोर्दु:खस्यानुसन्धानाभिलाषा मा स्यात् । कथमनुदिनमर्थ्यमानविषयसुखावाप्तिहेतौ विमुखता स्यादित्यत आह,अग्नीति ।

अग्निप्रवेशहेतौ धीश्श्रृंगारे यादृशी तथा ।
धीरस्योदेति विषयेऽनुसन्धानविरोधिनि ॥ १२७ ॥

 भर्तुर्मरणे तत्पत्न्या: अग्निप्रवेशहेतौ धीरग्निप्रवेशे दृढं बद्धा इच्छा श्रृंगारेलंकारादौ यादृशी वैरस्यभावसहिता यथा स्यात्तथैवास्य ब्रह्मानंदस्यानुसंधानविरोधिनि विषये धीर्वैरस्ये नोदेति ॥ १२७॥

 ननु ब्रह्मानन्दानुसन्धानविरोधिनि विषये सुखेऽस्य धीर्माभूत् । तदविरोधिनि भोजनादिजन्यसुखे सा कुतो न स्यादित्याशंक्याह, अविरोधीति ।