पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५१९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४८७
कल्याणपीयूषव्याख्यासमेता

अविरोधिसुखे बुद्धि: स्वानन्दे च गमागमौ ।
कुर्नन्यास्ते क्रमादेषा काकाक्षिवदितस्ततः ॥ १२८ ॥

 स्वस्वरूपानुसन्धानस्याविरोधिसुखे विरोधाभावयति अप्रयत्नसाध्यत्वेन बहिर्मुखत्वाहेतौ सुखे स्वानन्दे च बुद्धिरितस्ततः काकाक्षिवद्गमागमौ कुर्वन्ती आस्ते । स्वस्वरूपानन्दस्य सात्विकसुखानन्दस्याविरोधित्वं राजसतामससुखस्य विरोधित्वं चात्राभिहितं भवति ॥ १२८॥

 दृष्टान्तं विवृणोति एकेति ।

एकैव दृष्टिः काकस्य वामदक्षिणनेत्रयोः ।
यात्यायात्येवमानन्दद्वये तत्वविदो मतिः॥१२९॥

 स्पष्टः पूर्वार्धः । प्रकृते योजयति, एवमिति । एवमानन्दद्वयेऽपि स्वानन्दे तदविरोधिनि भोजनाद्यानन्दे च तत्त्वविदो मतिर्यात्यायात्येव । गमनागमने करोति ॥ १२९॥

 दार्ष्टान्तिकमेव स्पष्टयति, भुंजान इति ।

भुंजानो विषयानंदं ब्रह्मानंदं च तत्त्ववित् ।
द्विभाषाभिज्ञवद्विद्यादुभौ लौकिकवैदिकौ ॥ १३० ॥

 लौकिकवैदिकौ लौकिकः स्वानन्दाविरोधी विषयानन्दः, वैदिक औपनिषदो ब्रह्मानन्दरस्तावुभौ भुंजानोऽनुसंदधानस्तत्वविद्विभाषाभिज्ञवदुभावानन्दौ विद्यादवगच्छेत् ॥ १३० ॥

 ननु दुःखानुभर्वाभिलाषाभावेऽप्यनिवार्यतया तदनुभवसमये उद्वेगो जायेतेत्युद्वेगसमये कथं स्वस्वरूपानन्दोऽनुभूयते? तदनुभवप्रतिबन्धकस्योद्वेगस्य तदानीं सत्त्वादित्याशम्क्य तदुद्वेगो न जायत इत्याह, दुःखेति ।

दुःखप्राप्तौ न चोद्वेगो यथापूर्वम् यतो द्विदृक् ।
गंगामगार्धकायस्य पुंसश्शीतोष्णधीर्यथा ॥ १३१ ॥