'तत्वविद उपभोगेनैव क्षयशीलस्य दुःखस्य प्राप्तौ मनस उद्वेगो यथापूर्वम् तत्त्वज्ञानानुदयदशायामिव न भवति । तत्र हेतुमाह, यतो द्विदृगिति। लौकिक वैदिकोभयदर्शित्वादित्यर्थः । युगपत्परस्परविरुद्धोभयदर्शित्वं दृष्टान्तेन द्रढयति, गंगेति । यथा नदीस्नानसमये गंगामग्नार्धकायस्य गंगायां मग्नमर्धं कायस्य यस्य । तस्य पुंसः शीतोष्णधीरधःकाये शीतस्योर्ध्वकाये उष्णस्य च धीर्यथा जायते तथैव विरुद्धोभयदर्शित्वमस्येति भावः ॥ १३१॥
स्वप्नेऽपि ब्रह्मानन्दावाप्तिकथनम् ।
एवं जाग्रति तत्वविदो ब्रह्मसुखानुसन्धानस्य साध्यतामनूद्य स्वप्नेऽपि तां प्रदर्शयति, इत्थमिति ।
इत्थं जागरणे तत्वविदो ब्रह्मसुखं सदा। |
तत् ब्रह्मसुखम् । स्पष्टमन्यत् ॥ १३२॥
समाहितस्य तत्त्वविदो जाग्रदनुभूतानन्दवासनाजन्ये स्वप्नेऽप्यविद्यावा सनाजन्यत्वात्सुखदुःखानुभवोऽप्यस्तीत्याह, अविद्येति ।
अविद्यावासनाप्यस्तीत्यतस्तद्वासनोत्थिते । |
सुलभा पदयोजना । स्वप्नस्य जाग्रदनुभूतानन्दवासनाया इव, अविद्यावासनाया अपि कारणत्वात् तत्रोभयवासनायाः सत्वात् सुखं दुःखं चानुभूयेते इति भावः ॥ १३३॥
ग्रंथसंदर्भमुपसंहरति, श्रद्धेति ।
ब्रह्मानन्दाभिधे ग्रंथे ब्रह्मानन्दप्रकाशकम् । |
ब्रह्मानन्दाभिधे ग्रंथेऽस्मिन् प्रथमेऽध्याये ब्रह्मानन्दप्रकाशकं सुषुप्त्यवस्थायां, जाग्रत्स्वप्नयोरौदासीन्यकाले समाध्यवस्थायां सुखदुःखकाले च ब्रह्मानन्दस्य