अथ
कल्याणपीयूषव्याख्यासमेता
पंचदशी
ब्रह्मानन्दे - आत्मानन्दप्रकरणम् ॥१२॥
एकदशप्रकरणे योगिनो निजानन्दमावेदितम् । तेन तदन्यस्य गत्यभावः सूचितः । तस्यापि तां बोधयितुकामः प्रश्नमुखेनेदं प्रकरणमारभते, नन्विति ।
मन्दप्रज्ञ आत्मानन्देन बोध्यः ।
नन्वेवं वासनानन्दाद्ब्रह्मानन्दादपीतरम् । |
नन्विति प्रश्नार्थे । एवं पूर्वप्रकरणोक्तरीत्या ब्रह्मानन्दात् सुषुप्तावनुभूयमानात् वासनानन्दादपि विषयैर्विनौदासीन्येऽनुभूयमानादानन्दात् इतरं भिन्नं निजानन्दं सत्यपि दैते तदनुल्लिख्यानुभूयमानं योगी समाधिनिष्ठागरिष्ठो वेत्तु । अत्र ब्रह्मानन्दानुभवविषये मूढस्य योगविहीनस्य का गतिरस्तीति तां बोधयति॥१॥
अतिमूढस्य तस्य विद्याधिकार एव नास्तीति प्रतिवदति, धर्मेति ।
धर्माधर्मवशादेष जायतां म्रियतामपि । |
एष मूढः अतीतानेकजन्मसमासादितात् धर्माधर्मवशात् पुण्यपापफलपरिपाकवशात् देहलक्षै: असंख्याकैर्जन्मभिः पुनःपुनः अनवरतं जायतां म्रियताम् । “मृत्योः स मृत्युमाप्नोती"ति (कठ.२.४,१०) श्रुतेः । तस्मिन् विषये दाक्षिण्यतः अनुकूलभावेन नो अस्माकं किं वद ? न किमपि प्रयोजनमित्यर्थः । नास्ति तस्यान्या गतिरिति भावः ॥२॥