तस्यापि काचिद्गतिः कल्पनीयेति भृशं प्रार्थयत्यन्तेवासीत्याह, अस्तीति ।
अस्ति वोऽनुजिघृक्षुत्वाद्दाक्षिण्येन प्रयोजनम् । |
मूढं प्रति वो । युष्माकमनुजिघृक्षुत्वात् अनुगृहीतुमिच्छावत्वात् भवतां दाक्षिण्येन प्रयोजनमस्त्येव । एवं प्रार्थितो मूढोद्धरणमार्गविवक्षया पृच्छति, तर्हति । स मूढः जिज्ञासुः किं तत्त्वं ज्ञातुमिच्छुर्वा उत पराङ्मुखः तत्त्वविमुख वा ? ब्रूहि ॥ ३ ॥
मूढानुजिघृक्षो: किमर्थमयं विकल्प इत्याशंक्य उपदेशस्याधिकार्यनुरूप त्वात् उपास्तिकर्मादीनां मध्येऽन्यतममार्गविनिश्चयार्थमित्याह, उपास्तिमिति ।
उपास्तिं कर्म वा ब्रूयाद्विमुखाय यथोचितम् । |
गुरुसत्तमः शिष्यस्य सामर्थं विज्ञाय ब्रह्मजिज्ञासां प्रति विमुखाय यथोचितं उचितमार्गमनतिक्रम्य ब्रह्मलोकादिमुखप्राप्तये ध्यानदीपोक्तनिर्गुणाहंग्रहाद्युपास्तिं स्वर्गकामाय कर्म च ब्रूयात् । रोगनिदानानुरूपो ह्यौषधोपचारः । जिज्ञासुं तत्वजिज्ञासावंतं मन्दप्रज्ञं तथापि आत्मानन्देन बोधयेत् । अनात्मवित्त्वनिमित्तकशोकस्य पारं तारयत्विति प्रार्थमानस्य नारदस्य “यद्वेद्ध तेन मोपसीद ततस्त ऊर्ध्वम् वक्ष्यामी’ (छा. ७. १. १) त्यादिना सनत्कुमारेण बोधनमार्गदर्शनात्; कर्मोपास नयोर्ब्रह्मज्ञानोपकारकत्वमनेन सूचितम् । उपास्तयोऽत एवात्र ब्रह्मशास्त्रेऽपि चिन्तिता (७-१०५) इत्यन्यत्रोक्तम् ॥ ४ ॥
जिज्ञासोर्मन्दप्रज्ञस्य आत्मानन्दबोधनाप्रकारं याज्ञवल्क्येनोपदिष्टमव- तारयति, बोधयामासेति ।
बोधयामास मैत्रेयीं याज्ञवल्क्यो निजप्रियाम् । |
याज्ञवल्क्यो निजप्रियाम् मैत्रेयीं “न वा अरे! पत्युरर्थे पतिः प्रिय" इतीर-