यन् बोधयामास "न वा अरे! पत्युः कामाय पतिः प्रियो भवती"ति श्रुतिः (बृ.२.४.५.-४.५.६)। अरे इति प्रेमपुरस्सरं प्रियां प्रति संबोधयति । ओ मैत्रेयि पत्युः कामाय! संतोषणाय पतिः पत्न्याः प्रियो न भवति किंत्वात्मनस्तु कामायैवेति श्रुतेस्तात्पर्यम् ॥५॥
सर्वमात्मार्थं प्रियं भवति ।
"इयमात्मा परानन्दः परप्रेमास्पदं यतः” (१.८.) इत्युक्तत्वात् पर प्रेमास्पदत्वहेतुनाऽत्मनः परानन्दतां सिसाधयिषुरादौ परप्रेमास्पदत्वहेतुप्रदर्श कस्य “आत्मनस्तु कामाय सर्व प्रियं भवती’ (बृ. ४.५. ६) ति श्रुत्युदाहृत- वाक्यस्य तात्पर्यमर्थतः पठति, पतिरिति ।
पतिर्जाया पुत्रवित्ते पशुब्राह्मणबाहुजाः |
स्पष्टोऽर्थः ॥६॥
आत्मनस्तु कामायेति श्रुत्यर्थविचारणा ।
तत्रादौ पतिपत्नीपुत्रदृष्टान्तानि चतुर्भिर्विशदयति, पत्याविति ।
पत्याविच्छा यदा पत्न्यास्तदा प्रीतिं करोति सा । |
स्पष्टोऽर्थः ॥५-१०॥