पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४९३
कल्याणपीयूषव्याख्यासमेता

 पतिजायादिचेतनेषु क्रियमाणायाः प्रीतेः कतरस्मै प्रयोजनायेति संदेहा स्पदत्वान्निरुक्तश्रुतेरवशिष्टवाक्यार्थपठनपूर्वकं रत्नादिजडवस्तूदाहरणेन प्रीतिकर्तुः स्वार्थतां नवभिर्दृढयति, निरिच्छमिति ।

निरिच्छमपि रत्नादिवित्तं यत्नेन पालयन् ।
प्रीतिं करोति स स्वार्थे वित्तार्थत्वं न शंकितम् ॥ ११॥
अनिच्छति बलीवर्दे विवाहयिषते बलात् ।
प्रीतिः सा वणिगर्थैव बलीवर्दार्थता कुतः ॥ १२ ॥
ब्राह्मण्यं मेऽस्ति पूज्योऽहमिति तुष्यति पूजया।
अचेतनाया जातेर्नो संतुष्टिः पुंस एव सा ॥ १३ ॥
क्षत्रियोऽहं तेन राऽज्यं करोमीत्यत्र राजता ।
न जातेवैश्यजात्यादौ योजनायेदमीरितम् ॥ १४॥
स्वर्गलोकब्रह्मलोकौ स्तां ममेत्यभिवांछनम् ।
लोकयोर्नोपकाराय स्वभोगायैव केवलम् ॥ १५ ॥
ईशविष्ण्वादयो देवा पूज्यन्ते पापनष्टये ।
न तन्निष्पापदेवार्थं तत्तु खार्थं प्रयुज्यते ।। १६॥
ऋगादयो ह्यधीयन्ते दुर्ब्राह्मण्यानवाप्तये ।
न तत्प्रसक्तम् वेदेषु मनुष्येषु प्रसज्यते ॥ १७ ॥
भूम्यादिपञ्चभूतानि स्थानतृट्पाकशोषणैः
हेतुभिश्चावकाशेन वांछन्त्येषां न हेतवः ॥ १८ ॥
स्वामिभृत्यादिकं सर्वं स्वोपकाराय बांछति ।
तत्तत्कृतोपकारस्तु तस्य तस्य न विद्यते ॥१९॥