पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२६

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९४
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

 विवाहयिषते वाहयितुं कामयते । निष्पापदेवार्थम् अपगतसर्वपाप्मनां देवानां तोषणाय । दुर्ब्राह्मण्यानवाप्तये दुर्ब्राह्मणो व्रात्यः; तस्य भावः तत्वं । व्रात्यत्वावाप्तिनिवारणार्थम् । स्थानप्रदानदाहोपशमनान्नपचनार्द्रशोषणावकाशदाननिमितैः भूम्यादिपञ्चभूतानि मनुष्यैरपेक्ष्यन्ते । तत्तत्कृतोपकारः स्वामिना भृत्याय वेतनप्रदानं भृत्यकृतस्वामिसेवा च स्पष्टमन्यत्सर्वम् ॥११-१९॥

 एवमनेकनिदर्शनप्रदर्शने प्रयोजनमाह, सर्वेति ।

सर्वव्यवहृतिष्वेवमनुसंधातुमीदृशम् ।
उदाहरणबाहुल्यं तेन स्वां वासयेन्मतिम् ॥ २० ॥

 स्वाभीष्टसंपादनपरासु सर्वव्यवहृतिषु एवं “न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति । आत्मनस्तु कामाय सर्वं प्रियं भवतो" (बृ.४.५.६.)त्यनुसंधातुं ईदृशं चेतनाचेतननिरिच्छादीनां सर्वजगदन्तःपातिनामुदाहरणबाहुल्यं प्रदर्शितम् । तेन स्वां मतिं वासयेत् । सर्वं स्वस्यैव शेषत्वेन विज्ञाय स्वस्यैव प्रियतमत्वानुसंधानवर्ती कुर्यात् ॥ २०॥

प्रीतिस्वरूपविचारः।

 एवमभिहितमात्मनः प्रियतमत्वमयुक्तम् । आत्मनः प्रीतेर्निरूपणाशक्यत्वात्, इयाशयेन प्रीतिं विकल्पते, अथेति ।

अथ केयं भवेत्प्रीतिः श्रूयते या निजात्मनि ।
रागो वध्यादिविषये श्रद्धा यागदिकर्मणि ।
भक्तिः स्याद्गुरुदेवादाविच्छा त्वप्राप्तवस्तुनि ॥ २१ ॥

 निजात्मनि या प्रीतिः श्रूयते सेयं प्रीतिरथ का भवेत् । अथेति प्रश्नार्थे।। सा प्रीतिः रागश्चेत् स वध्वादिविषय एव स्यात्; श्रद्धा चेत् यागादिकर्मण्येव स्यात् ; भक्श्चेित् गुरुदेवादावेव स्यात् ; इच्छा चेत् अप्राप्तवस्तुनि स्यात् ; नेतरेषु। रागाद्यतिरिक्तायाः प्रीतेर्लोकेऽननुभूयमानत्वात्त्वया विवक्षिता प्रतिर्दुर्निरूपेति भावः ॥२१॥

 एवंरूपामाशंकां पक्षान्तरमाश्रित्य समाधत्ते,