पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२८

एतत् पृष्ठम् परिष्कृतम् अस्ति
४९६
[ब्रह्मानंदे योगानंदाख्य
पञ्चदशी

धर्मद्वयं न संभवति ॥ २४॥

 किं चान्नपानादेरात्मति वैलक्षण्यं प्रदर्शयति सुख इति ।

सुखे वैषयिके प्रीतिमात्रमात्मा त्वतिप्रियः।
सुखे व्यभिचरत्येषा नात्मनि व्यभिचारिणी ॥ २५ ।।

 वैषयिके सुखे प्रीतिमात्रं सामान्यतः अल्पा प्रीतिः। आत्मा तु अतिप्रियः अत्यन्तं प्रियः निरतिशयप्रेमास्पदः । निरतिशयत्वे उपपत्तिमाह; एषा प्रीतिः वैषयिकसुखे व्यभिचरति, भक्तिश्रद्धारागवत् सुखान्तरं गच्छति । आत्मनि विद्यमाना एषा प्रोतिः न व्यभिचारिणी विषयान्तरं न गच्छति, अतोऽस्या निरतिशयत्वम् ॥२५॥

 अमुमेवार्थं स्पष्टयति, एकमिति ।

एकं त्यक्त्वाऽन्यदादत्ते सुखं वैषयिकं सदा ।
नाऽऽत्मा त्याज्यो न चाऽऽदेयस्तस्मिन् व्यभिचरेत्कथम् ॥ २६ ॥

 वषैयिकं विषयजन्यं सुखं सदा एकं विषयं त्यक्त्वा अन्यद्वस्तु आदत्ते स्वीकरोति । किन्तु आत्मा न त्याज्यः न चाऽऽदेयः न ग्रहणयोग्यः एवं सति । तस्मिन्नात्मनि कथं व्यभिचरेत् ॥ २६ ॥

 नन्वात्मा परित्याज्यो वा परिग्राह्यो वा माऽस्तु । तृणवदुपेक्षितव्यो भवत्वित्याशंक्याह, हानेति ।

हानादानविहीनेऽस्मिन्नुपेक्षा चेत्तृणादिवत् ।
उपेक्षितुः स्वरूपत्वान्नोपेक्ष्यत्वं निजात्मनः ॥ २७ ॥

 हानादानविहीने परिस्यागपरिग्रहणविरहिते अस्मिन् आत्मनि तृणादिवदुपेक्षा उदासीनभावश्चेत् अस्य आत्मन उपेक्षितुः स्वरूपत्वात् निजात्मन उपेक्ष्यत्वं न संभवति ॥२७॥

 नन्वात्मनो हानविषयत्वमपि दृश्यत इत्याशंकते, रोगेति ।