पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५२९

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
४९७
कल्याणपीयूषव्याख्यासमेता

रोगक्रोधाभिभूतानां मुमूर्षा वीक्ष्यते क्वचित् ।
ततो द्वेषाद्भवेत्याज्य आत्मेति यदि तन्न हि ।। २८ ॥

 सुलभा पदयोजना। “अहं मरिष्यामी”स्यादिरागादिप्रयुक्तोक्तौ आत्मत्यागो नोद्दिश्यते ॥२८॥

 तत्र कारणमाह, त्यक्तुमिति ।

त्यक्तुं योग्यस्य देहस्य नात्मता त्यक्तुरेव सा ।
न त्यक्तर्यस्ति स द्वेषस्त्याज्ये दोषे तु का क्षतिः ॥२९॥

 त्यक्तुं योग्यस्य परिहर्तव्यस्य देहस्य आत्मता आत्मत्वं न। किंतु सा आत्मता त्यक्तुरेव । स रोगक्रोधादिकृतो द्वेषः त्यक्तरि नास्ति । किंतु देहे । तस्यैव रोगपीडितत्वात् । ‘धिगिदं जन्म मरिष्यामी"ति वदति । रुगाविष्टो जनः त्याज्ये शरीरे द्वेषे सति आत्मनः का क्षतिः, न कापि । आत्मभावस्तु देहादन्यस्य जीवस्य न तु देहस्य । अतस्याज्ये शरीरे द्वेषे सति त्यक्तुर्जीवस्य न कापि क्षतिरिति भावः ॥ २९ ॥

आत्मनस्तु कामायेति श्रुत्यर्थो युक्यनुभवसिद्धः।

 आत्मनस्तु कामायेति श्रुतिप्रतिपादिता आत्मनि या निरतिशया प्रीतिस्तां युक्तितोऽपि समर्थयति, आत्मेति ।

आत्मार्थत्वेन सर्वस्य प्रीतेश्चात्मा ह्यतिप्रियः।
सिद्धो यथा पुत्रमित्रात् पुत्रः प्रियतरस्तथा ।। ३० ॥

 सुलभा पदयोजना । पतिपुत्रवित्ताद्यशेषसुखसंपादकसमुदायस्यात्मार्थत्वेन आत्मनः प्रयोजनाय प्रीतेः प्रियत्वात् आत्मा अतिप्रियो हि ॥ ३०॥

 एवं श्रुतियुक्प्रितिपादितमर्थं स्वानुभवप्रदर्शनेन द्रढयति, मा इति ।

मा न भूवमहं किं तु भूयासं सर्वथेत्यसौ ।
आशीः सर्वस्य दृष्टेति प्रत्यक्षा प्रीतिरात्मनि ॥ ३१॥

63