पूर्वार्धस्तु १-८ श्लोकेषु व्याख्यातः । आशीरिच्छ। स्पष्टमन्यत् ॥ ३१॥
निरुक्तार्थनिगमनपूर्वकं मतान्तरदोषप्रविदर्शयिषया तदवतारयति, इत्याः दिभिरिति ।
इत्यादिभिस्त्रिभिः प्रीतौ सिद्ध्यायामेवमात्मनि । |
त्रिभिः श्रुतियुक्त्यनुभवरूपैः प्रमाणैः । कैश्चित् श्रुत्यादीनामर्थानभिज्ञै: पुत्रादिप्रयोजनायात्मेति कथ्यते । स्पष्टमन्यत् ॥ ३२॥
कथमेतद्ज्ञायते इत्यत आह, एतदिति ।
एतद्विवक्षया पुत्रे मुख्यात्मत्वं श्रुतीरितम् । |
स्पष्टोऽर्थः । “आत्मा वै पुत्रनामे"ति (कौषो. २-११) श्रुतिः ॥ ३३॥
तदभिधायकमुपनिषद्वाक्यमर्थतः पठति, स इति ।
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते । |
अस्य पितुः सोऽयमात्मा "पुरुषोह वायमादितो गर्भो भवती’ (ऐ २-१) त्यादिना गर्भत्वेनातिशयेन पालनीयत्वेन चोक्तः पुत्ररूपः आत्मा पुण्येभ्यः कर्मभ्य: पुण्यकर्मानुष्ठानाय प्रतिधीयते प्रतिनिधित्वेनावस्थाप्यते, पित्रेति शेषः । अथ प्रतिनिधित्वेन स्थापनानन्तरं अस्य पितुः इतरः पुत्रादन्यः अयं प्रत्यक्षेण परिदृश्यमान आत्मा जराग्रस्तः स्वयं कृतकृत्यस्सन् निर्वर्तितसर्वकार्यजातस्सन् प्रमीयते । मृतो भवति । अनेन स्वेनैवाचरितव्यपुण्यकर्माचरणाय प्रतिनिधित्वेन स्थापनोक्त्या तस्य पुत्ररूपस्यात्मनो मुख्यत्वं स्वस्वरूपात्मनश्च जराग्रस्तत्वेन मरणोन्मुखत्वेन च कर्माद्यनुष्ठानानुपयोगितया गौणात्मत्वं चाभिहितमिति ध्येयम् ॥ ३४॥
उक्तार्थस्य दृढीकरणाय पुत्ररहितस्योत्तरगतिशून्यत्वबोधकं "नापुत्रस्य लोकोऽस्ती” तिं वाक्यमर्थतः पठति, ‘सत्यपीति ।