लौकिकानुभवं प्रदर्शयति, स्वस्मिन्निति ।
स्वस्मिन् मृतेऽपि पुत्रादिर्जीवेद्वित्तादिना यथा। |
स्पष्टोऽर्थः । तत्ः पुत्रादयः पुत्रकलत्रादयो मुख्याः ॥ ३८ ॥
उक्तभंगीकृत्य समाधत्ते, बाढमिति ।
बांढमेतावता नत्मा शेषो भवति कस्यचित् । |
बाढं भवदुक्तरीत्या पुत्रादीनां प्राधान्यमस्तु । एतावता क्वचित्प्राधान्य- सिध्या आत्मा कस्यचित् पुत्रादेः शेषो न भवति । । तदपेक्षया अमुख्यो न भवति । ततस्तेषां मुख्यात्मत्वं न सिध्यतीति भावः ।
गौणमुख्यमिथ्यात्मविचारः।
तेषाममुख्यात्मत्वं विशदयितुमात्मनस्त्रैविध्यं दर्शयति, गौणेति ।
गौणमिथ्यामुख्यभेदैरात्माऽयं भवति त्रिधा ॥ ३९ ॥ |
स्पष्टोऽर्थः ॥ ३९॥
पुत्रादेर्गौणात्मत्वप्रदर्शनाय लोके गौणप्रयोगमुदाहरति, देवदत्त इति ।
देवदत्तस्तु सिंहोऽयमित्यैक्यं गौणमेतयोः । |
अयं देवदत्त: सिंह इति । प्रत्यक्षेण भिन्नतया प्रतीयमानयोर्गुणसाम्येन ऐक्यं गौणमेव गुणसाम्यजन्यमेव । कुतः ? एतयोर्भेदस्य भासमानत्वात् । तथा पुत्रादेरात्मता गौणात्मत्वमेव भवतीत्यर्थः ॥४०॥
अथ मिथ्यात्मानं दर्शयति, भेद इति ।
भेदोऽस्ति पंचकोशेषु साक्षिणो न तु भात्यसौ । |