पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥११॥ ]
५०१
कल्याणपीयूषव्याख्यासमेता

 पंचकोशेषु अन्नमयादिषु भेदः अस्ति । तथापि साक्षिणस्सकाशाद्विद्यमानोऽप्यसौ भेदः न भाति । अतः यथा स्थाणोः चोराद्भिन्नस्य चैौरात्मता मिथ्या तथैव कोशानां मिथ्यात्मता ॥४१॥

 अथ साक्षिणो मुख्यात्मत्वं विशदयति, नेति ।

न भाति भेदो नाप्यस्ति साक्षिणोऽप्रतियोगिनः ।
सर्वातरत्वात्तस्यैव मुख्यमात्मत्वमिष्यते ॥ ४२ ॥

 अप्रतियोगिनः प्रतियोगिरहितस्य साक्षिणः प्रत्यगात्मनः भेदो न भाति । न प्रतीयते । अप्रतियोगिनस्तस्य नाप्यभेदोऽस्ति । साक्षिभिन्नस्य तु मिथ्यात्वात् मिथ्याभूतस्य प्रतियोगित्वासंभवेन साक्षिणः प्रतियोगी नास्तीत्यर्थः । ननु माऽस्तु भेदः । तथापि मुख्यत्वं कथमुच्यत इत्यत आह, सर्वेति । सर्वान्तरस्त्वात् सर्वान्त रत्वेन प्रतीयमानत्वात्तस्यैव साक्षिणो मुख्यमात्मत्वमिष्यते ॥ ४२ ॥

 एवं साक्षिणो मुख्यात्मत्वं प्रतिपाद्य विविधात्मनामपि मध्ये यद्यद्व्यवहारेषु यस्य यस्योपयोगस्तत्तद्व्यवहार्येषु तस्य तस्य प्राधान्यमित्याह, सतीति ।

सत्येवं व्यवहारेषु येषु यस्यात्मतोचिता ।
तेषु तस्यैव शेषित्वं सर्वस्यान्यस्य शेषता ॥ ४३ ॥

 एवमात्मनः येषु व्यवहारेषु पूर्वोक्तात्मनां मध्ये यस्य आत्मता प्रकरणो चितात्मता तेषु तेषु व्यवहारेषु तस्यैव शेषित्वं प्राधान्यं तद्यतिरिक्तस्यान्यस्य सर्वस्य शेषता अप्राधान्यं । एवं लोकव्यवहारेषु शेषशेषिभाव आपेक्षिक इति भावः ॥ ४३ ॥

 गौणात्मनश्शेषित्वप्रयोजकव्यवहारं दर्शयति, मुमूर्षोरिति ।

मुमूर्षोर्गृहरक्षादौ गौणानेवोपयुज्यते ।
न मुख्यत्मा न मिथ्यात्मा पुत्रः शेषी भवत्यतः ॥४४॥

 मुमूर्षोर्गृहरक्षादौ गौणात्मैव पुत्रकलत्रादिरेवोपयुज्यते । तत्र मुख्यात्मा साक्षी मिथ्यात्मा वेदादिश्च नोपयुज्यते । अतः तत्रोपयोगानुसारात् पुत्र: शेषी