तद्वेत्ति गुरुशास्त्राभ्यां न तु किंचिच्चिकीर्षति ॥ ४८ ॥ |
अहं मोक्ष्ये संसारान्मुक्तो भविष्यामीत्यत्र चिदात्मत्वं चैतन्यस्वरूपस्य साक्षिणः प्रधानात्मत्वं युक्तम् । कुतः ? तदा पुमान् मुमुक्षुः गुरुशास्राभ्यां परोक्षज्ञानमासाद्य निदिध्यासेन अहं ब्रह्मस्मीति तत् साक्षिणं वेत्ति अपरोक्षतया साक्षात्करोति । न तु किंचिदपि चिकीर्षति । अहंकर्तृत्वधिया व्यवहर्तुं नेच्छति ॥ ४८ ॥
तत्तदात्मनां तत्तद्व्यवहारे व्यवस्थितोऽधिकार इति सदृष्टान्तमाह, विप्रेति ।
विप्रक्षत्रादयो यद्वद्बृहस्पतिसवादिषु । |
“विप्रक्षत्रादयः बृहस्पतिसवादिषु सोमादिसवनार्षाणां | मध्ये विप्रः बृहस्पतिसवेन यजेते"ति, ब्राह्मणस्य बृहस्पतिसवेन, “शजा राजसूयेने"ति क्षत्रियस्य राजसूयेन, “वैश्यो वैश्यस्तोमेन यजेते"ति वैश्यस्य वैश्यस्तोमेन, यद्वत् यथाघिकारे व्यवस्थिताः तथा यस्मिन् प्रकरणे य उद्दिष्ट: स एष तत्र प्रधानं आत्मानान्य इति यथोचितं गौणमिथ्यामुख्याः आत्मानः तत्तद्व्यवहारौचित्यानुसारेण व्यवस्थिताः प्रधानतया ग्राह्या भवन्ति ॥४९॥
"बाढमेतावता नात्मा शेषो भवति कस्यचि"दिति निरुक्तार्थमेवैवं- विचारणाफलत्वेन निगमयति, तत्रेति ।
तत्र तत्रोचिते प्रीतिरात्मन्येवातिशायिनी । |
यस्मिन् व्यवहारे यो य आत्मा युक्तो भवति तत्र तत्र तस्मिन् तस्मिन् व्यवहारे उचिते उपयुक्ते । अतस्तत्र तत्र प्रधाने प्रीतिरस्ति । तेषु चात्मन्येव मुख्यात्मभूते साक्षिण्येव अतिशायिनी अतिशयवती निरतिशया प्रीतिर्मुख्यात्मभूते साक्षिण्येवेति भावः । तच्छेषे मुख्यात्मनः शेषभूते अनात्मनि मुख्यामव्यतिरिक्ते गौणात्मादौ प्रीतिः प्रीतिमात्रमेव । न तु निरतिशयेत्यर्थः । अन्यत्र मुख्यात्म