तच्छेषाभ्यामन्यसित्रुभयं निरतिशयं सामान्यं वा प्रेम नास्ति । मुख्यात्मन्यतिशयिता प्रीतिः ; गणात्मादौ तच्छेषभूते सामान्या, उभयतो भिन्ने सामान्याऽतिशयिता वा प्रीतिर्नास्तीति यावत् ॥ ५० ॥
ननु किं तदन्यद्वस्त्वित्यत आह, उपेक्ष्यमिति ।
उपेक्ष्यं द्वेष्यमित्यन्यद् द्वेधा मार्गतृणादिकम् । |
स्पष्टोऽर्थः ॥ ५१ ॥
चातुर्विध्यं प्रदर्शयति, आत्मेति ।
आत्मा शेष उपेक्ष्यं च द्वेष्यं चेति चतुष्पैपि । |
आत्मा मुख्यात्मा, तदन्याऽत्मा शेषः, उपेक्ष्यं, द्वेष्यं चेति चतुर्षु विधेषु अयमत्यन्तप्रियः अयं सामान्यतः प्रियः अयमुपेक्ष्यः अयं द्वेष्य: इत्यवधारणया व्यक्तिलनियमो नास्ति । किंतु तत्तत्कार्यात् तस्मात्तस्मात्कार्यविशेषात् तथा तथा चतुर्विधेष्वन्यतमो भवतीत्यर्थः ॥ ५२ ॥
तत्तत्कार्यविशेषात्प्रियतमत्वादिसिद्धिरित्यर्थमेवोदाहरणेन विशदयति, स्यादिति ।
स्याद्व्याघ्र: संमुखो द्वेष्यो ह्युपेक्ष्यस्तु पराङ्मुखः । |
सुलभा पदयोजना । व्यक्तिनियमाभावेनैक एव व्याघ्रः संदर्भानुसारेण । द्वेषोपेक्षाविनोदविषयो भवतीत्यर्थः ॥ ५३ ॥
व्यक्तीनां विविधघर्मांगीकारे नियमाभावे व्यवहारव्यवस्थैव माभूदित्याशंक्याह, व्यक्तीनामिति ।
व्यक्तीनां नियमो माभूल्लक्षणात्तु व्यवस्थितिः । |