पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५३८

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०६
[ब्रह्मानंदे आत्मानंद
पञ्चदशी

कोशान विविच्य अंतर्वस्तुदृष्टिः स्वयंप्रकाशं सर्वसाक्षिभूतं अन्तः हृत्पुंडरीके उपलभ्यमानं निर्गुणत्वाकिंचिदनिर्वाच्यं वस्तु तस्मिन् दृष्टिः विचारणेत्युच्यते।५७

 निरुक्तान्तर्वस्तुदृष्टिप्रकारमाह,जागरेति ।

जागरस्वप्नसुप्तीनामागमापायभासनम् ।
यतो भवत्यसावात्मा स्वप्रकाशचिदात्मकः ॥ ५८ ॥

 जागरस्वप्नसुप्तीनामवस्थानां आगमापायभासनं एकस्यागमेऽन्यस्यापार इति क्रमेण भासनं यतो भवति असौ स्वप्रकाशचिदात्मक आत्मा। अन्योन्य व्यावर्तकासु जाग्रत्स्वप्नसुषुप्तिष्वनुवृत्तं सद्यत्तत्तदवस्थाः भासयति तदेव चिदात्मकं वस्तु साक्षीत्यर्थः ॥ ५८॥

 साक्षीतरेषां तरतमभावेन शेषत्वमित्याह, शेषा इति ।

शेषाः प्राणादिवित्तान्ता आसन्नास्तारतम्यतः ।
प्रीतिस्तथा तारतम्यात्तेषु सर्वेषु वीक्ष्यते ॥ ५९ ॥

 आत्मनः शेषाः प्राणादिवित्तान्ताः तारतम्यतः आत्मनः आसन्नाः सन्निहिताः सुखसाधनभूताः। तथैव तेषु सर्वेषु तारतम्यात्तथा प्रीतिर्वीक्ष्यते ॥ ५९॥

 प्रीतितारतम्यान्प्राणादीनामासत्तितारतम्यमनुभवेन विशदयति,वित्तादिति।

वित्तात्पुत्रः प्रियः पुत्रात्पिण्डः पिण्डात्तर्थेद्रियम् ।
इंद्रियाच्च प्रियः प्राणः प्राणादात्मा प्रियः परः ॥ ६० ॥

 स्पष्टोऽर्थः । पिण्डो देहः । वित्तपुत्रदेहेंद्रियप्राणात्मनां मध्ये पूर्वपूर्वस्मादुत्तरोत्तर: सन्निहिततर: अत्यन्तसन्निकृष्टत्वात् प्रियतमश्चात्मा ॥ ६०॥

 एवमात्मनि निरतिशयप्रीतेरनुभवसिद्धावपि विद्वन्मूढयोर्विवादपरिजिहीर्षया श्रुतिप्रदर्शितं विप्रतिपत्तिपूर्वकनिर्णयमाह, एवमिति ।

एवं स्थिते विवादोऽत्र प्रतिबुद्धविमूढयोः ।
श्रुत्योदाहारि तत्रात्मा प्रेयानित्येव निर्णयः ॥ ६१ ॥