स्पष्टोऽर्थः ॥ ६१ ॥
तं विवादं विशदयति, साक्षीति ।
साक्ष्येव दृश्यादन्यस्मात्प्रेयानित्याह तत्त्ववित् । |
अन्यस्माद्दृश्यात् द्वैतात् साक्षी एव प्रत्यगात्मैव प्रेयानिति तत्त्ववित्। ज्ञानी आह । पुत्रादिरेव पुत्रवित्तजायादय एव प्रेयांस इमं द्वैतप्रपंचं भोक्तुं साक्षी भवतीति मूढधीराह ॥६२॥
स मूढधीः जिज्ञासुः जिगीषुर्वा स्यादिति विकल्प्य तदनुरूपं समाधान प्रकारमाह, आत्मन इति ।
आत्मनोऽन्यं प्रियं ब्रूते शिष्यश्च प्रतिवाद्यपि । |
मूढधीः शिष्यः शासितुं योग्यः प्रतिवाद्यपि आत्मनः अन्यं व्यतिरिक्तं पुत्रादिरूपं प्रियं प्रेमविषयं ब्रूते । तयोः शिष्यप्रतिवादिनो: बोधशापैौ क्रमात् । तस्य उत्तरं वचः प्रतिवचनं कुर्यात् । जिज्ञासुं बोधेन समाहितं जिगीषुं शापेन पराभूतं च कुर्यात् ॥ ६३॥
निरुक्तश्रुतेस्समनन्तरवाक्यार्थपठनेन बोधशापात्मकमुत्तरमेकवाक्येन वाक्ति, प्रियमिति ।
प्रियं त्वां रोत्स्यतीत्येवमुत्तरं वक्ति तत्त्ववित् । |
तत्त्ववित् शिष्यप्रतिवादिनावुभावपि प्रियं तवाभिमतं वित्तपुत्रादिकं । त्वां रोत्स्यति रोदनं कारयिष्यति “स योन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यती"त्येव (बृ. १.8.८) मुत्तरं प्रतिवचनं वक्ति । शिष्यपतिवादिनोः प्रतिवचनरूपमेकं वाक्यं कथं ताभ्यां प्रतिगृहीतमित्याशंक्य यथा शिष्येणावबुद्धं तत्सार्धश्लोकचतुष्टयेन द्योतयति । स्वोक्तेति । स्वोक्तपियस्य स्वेनोक्तस्य पुत्रादि