पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५०८
[ब्रह्मानंदे आत्मानंद
पञ्चदशी

रूपस्य प्रियस्य प्रीतिविषयस्य दुष्टत्वं दुःखसाधनत्वं विवेकतो दोषविचारेण वेत्ति जानाति ॥ ६४॥

 तत्र पुत्रे दोषविचारप्रकारं दर्शयति, अलभ्येति ।

अलभ्यमानस्तनयः पितरो क्लेशयेच्चिरम् ।
लब्धोऽपि गर्भपातेन प्रसवेन च बाधते ॥ ६५ ॥
जातस्य ग्रहरोगादिः कुमारस्य च मूर्धता ।
उपनीतेऽप्यविद्वत्वमनुद्वाहश्च पंडिते ॥ ६६ ॥
पुनश्च परदारादि दारिद्रथं च कुटुंबिनः ।
पित्रोर्दु:खस्य नास्त्यम्तो धनी चेन्म्रियते तदा ॥ ६७ ॥

 तनयः तनोति कुलमिति तनयः स्पष्टमन्यत् । एवं प्रेमास्पदत्वेनाभिहितेन पुत्रेण पित्रोः दुःखस्य अंतो नास्ति । अजातो जातोऽपि पुत्रोऽमितसंतापकारण- मित्यर्थः ॥ ६७ ॥

 एवं विविच्य जिज्ञासुरनात्मनि प्रीतिं परित्यज्यात्मन्येव तां करोतीत्याह, एवमिति ।

एवं विविच्य पुत्रादैौ प्रीतिं त्यक्त्वा निजात्मनि ।
निश्चित्य परमां प्रीतिं वीक्षते तमहर्निशम् ॥ ६८ ॥

 स्पष्टोऽर्थः ।। ६८ ॥

 प्रियं त्वां रोत्स्यतीत्युत्तरं प्रतिवादिने कथं शापायंते इत्याशंक्याह, आग्रहेति।

आग्रहाद्रह्मविद्वेषादपि पक्षममुचतः।
वादिनो नरकः प्रोक्तो दोषश्च बहुयोनिषु ॥ ६९ ॥

 पुत्रादिः प्रेयानिति स्वपक्षसंरक्षणे आग्रहात् अभिनिवेशात् यद्वा ब्रह्मविद्द्वेषादपि ब्रह्म सत्यं जगन्मिथ्येति यो वेत्ति स ब्रह्मवित्तस्मिन् स्वमतविरोधित्वात्