पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४२

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१०
[ब्रह्मानंदे आत्मानंद
पञ्चदशी

सुखवृद्धिः प्रीतिवृद्धौ सार्वभौमादिषु श्रुता ।। ७२ ॥

 आत्मनः परमानन्दरूपता कुतः ? परप्रेमास्पदत्वेन । अनेनात्मा परमा नन्दरूपः निरतिशयप्रेमास्पदत्वादित्यनुप्रयोगो | दर्शितः । यः परमानन्दरूपो न भवति स परप्रेमास्पदो न भवति यथा घटः, इति केवलव्यतिरेकदृष्टान्तो निरति शयप्रेम्णि निरधिशयानन्द इति स्फोरयितुं प्रेमातिरेकमुखातिरेकं दृष्टान्तेन दर्श यति,सुखेनेति। सार्वभौमादिषु सार्वभौमादिहिरण्यगर्भान्तेषु पदविशेषेषु प्रीतिवृद्धौ सुखवृद्धिः “स एको मानुष आनन्द" (३.३.८.) इत्यादिवाक्यजातेन श्रुता । एतद्दृष्टान्तेन प्रीतेर्निरतिशयत्वे सत्यानंदस्यापि तथात्वमनुमेयमिति भावः ॥ ७२॥

 ननु प्रत्यगात्मनः परमानन्दता नोपपद्यते । तथात्वे चैतन्यमिव सर्व वृत्तिष्वनुवर्तेतेत्याक्षिपति, चैतन्येति ।

चैतन्यवत्सुखं चास्य स्वभावश्चेच्चिदात्मनः ।
धीवृत्तिष्वनुवर्तेत सर्वास्वपि चितिर्यथा ॥ ७३ ॥

 स्पष्टोऽर्थः ॥७३॥

 दृष्टान्तेन पूर्वपक्षं परिहरति, मेति ।

मैवमुष्णप्रकाशात्मा दीपस्तस्य प्रभा गृहे ।
व्याप्नोति नोष्णता तद्वच्चितेरेवानुवर्तनम् ॥ ७४॥

 एवं यत्र चैतन्यभानं तत्रानन्दस्यापि भानमिति नियमो मास्तु । दीपः उष्णप्रकाशात्मा औष्ण्यं प्रकाशश्चेत्युभयस्वभावकः; तथापि गृहे तस्य प्रभैव व्याप्नोति न तूष्णता । तद्वत् धीवृत्तिषु चितेरेवानुवर्तनमस्ति न त्वानन्दस्य ॥७४॥

 ननु चिदानन्दयोरभेदाच्चिदभिव्यंजकधीवृत्तावानन्दस्याप्यभिव्यक्तिः स्यादित्याशंक्य नायं नियमोऽस्तीति दृष्टान्तमुखेनाह, गंधेति ।

गधरूपरसस्पर्शेष्वपि सत्सु यथा पृथक् ।
एकाक्षेणैक एवार्थो गृह्यते नेतरस्तथा ॥ ७५ ॥

 एकस्मिन्नेव वस्तुनि रसालादाविव गंधरूपरसस्पर्शेषु सस्त्वपि यथा