बुद्धेः सत्ववृत्तौ चित्सुखैक्यं चित्त सुखस्य चैक्यमुपलभ्यते । तद्वृत्तेः सत्ववृत्तेः निर्मलत्वतो शुद्धत्वात् । रजोवृत्तेस्तु मालिन्यात् अत्र सुखांशः तिर स्कृतः पिहितो भवति ॥ ७८॥
सुखांशस्य तिरस्कारे दृष्टान्तमाह, तिंत्रिणीति ।
तैित्रिणीफलमत्यम्लं लवणेन युतं यदा । |
यथा अत्यम्लं तिंत्रिणीफलं लवणेन युतं भवति तथाम्लस्य तिरस्कारा त्तिरोभूतत्वात् ईषदम्लं तिरस्कृताम्लं दृश्यते । तथाऽत्र तिरस्कृत इति पूर्वे- णान्वयः ॥ ७९ ॥
एवं प्रियतमप्रियोपेक्ष्यद्वेष्यविचारेणात्मा परमानन्दरूप इति विवेके संजातेऽपि नायमपरोक्षज्ञानसाधनक्षमः, तस्य योगं विनाऽसंभवादिति गूढाभिसंधिं पूर्वपक्षमुखेनावतारयति, नन्विति ।
ननु प्रियतमत्वेन परमानन्दतात्मनि । |
नन्वेवं प्रियतमप्रियोपेक्ष्यद्वेष्यविचारेण मुख्यगौणमिथ्याभेदविवेचनेन च प्रियतमत्वेनात्मनि परमानंदता विवेक्तुं शक्यताम् । तथापि योगेन विना किं । भवेत् मुक्तिर्न सिध्यति । योगस्य मुक्तिसाधनत्वेनाभिहितवादित्यर्थः ॥ ८० ॥
ज्ञानयोगयोःफलादिसर्वसाम्यविचारः।
यथा योगस्यापरोक्षज्ञानहेतुत्वं तथैव विवेकस्यापि तद्धेतुत्वमिति समा- धत्ते, यदिति ।
यद्योगेन तदेवेति वदामो ज्ञानसिद्धये । |
यत् ज्ञानं पूर्वाध्याये वर्णितेन ध्यानयोगेन “इत्थं जागरणे तत्त्वविदो ब्रह्मसुखं सदा भाती" (११. १३२) त्युक्तं तथैव विवेकेनापि भातीति वदामः।