योगो ब्रह्मापरोक्षज्ञानसिद्धये प्रोक्तश्चेत् मुख्यगौणमिथ्यात्मविवेकद्वारा कोशपञ्चक विवेचनेनापि ज्ञानं कि नो जायते । योग इव विवेकोऽपि ज्ञानहेतुरित्यर्थः ।८१।
तत्र प्रमाणमाह,यदिति ।
यत्सांख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते । |
ध्यानदोपे १३४ श्लोके सम्यग्व्याख्यातोऽयं विषयः ॥ ८२॥
सांख्ययोगयोरेकफलत्वेऽप्यधिकारिभेदेन मार्गभेदोऽपि निर्दिष्ट इत्याह, असाध्येति।
असाध्यः कस्यचिद्योगः कस्यचित् ज्ञाननिश्चयः। |
स्पष्टोऽर्थः ॥ ८३॥
ननु विशेषायाससाध्यो योगः । तदभावात्सुसाध्यो विवेकः। इत्यायासबाहुल्येन तत्रातिशयो यः कश्चन वाच्यः । इत्याशंक्य विवेकाद्योगस्यातिशयः किमपरोक्षज्ञानजनकत्वात् यद्वा रागद्वेषादिनिवर्तकत्वादाहोस्वित् द्वैतानुपलब्धिकारणत्वादिति विकल्प्योत्तरयति, योग इति ।
योगे कोऽतिशयस्तेऽत्र ज्ञानमुक्तं समं द्वयोः । |
विवेकादत्र योगे ते अतिशयः कः ? न कोऽपि । अतिशयहेतुत्वेन विकल्पितेष्वाद्यं दूषयति, ज्ञानेति । विवेकयोगयोर्द्वयोः ज्ञानयोगेनेत्यादिनाऽपरोक्षज्ञानलक्षणं फलं सममुक्तम् । द्वितीयं दूषयति, रागेति । योगिविवेकिनोः रागद्वेषाद्यभावश्च तुल्यः समान एव ॥ ८४ ॥
ननु योगिन इव ज्ञानिनो रागद्वेषाद्यभावः कथं सिध्यतीत्याशंक्याह, नेति ।
न प्रीतिर्विषयेष्वस्ति प्रेयानात्मेति जानतः ।। |