कुतो रागः कृतो दोषः प्रातिकूल्यमपश्यतः ॥ ८५ ॥ |
आत्मा प्रेयान् निरतिशयप्रेमास्पद इति जानतो विवेकिनो विषयेषु । प्रीतिरेव नास्ति । विषयेषु रागहेतोरानुकूल्यमपश्यतो रागः कुतः ? प्रातिकूल्य मपश्यतो द्वेषः कुतः ? अनुकुलवस्तुनि रागः प्रतिकूलवस्तुनि द्वेषश्च लोकसिद्धः । विवेकिनो विषयेष्वनुकूलवप्रतिकूलत्वयोरभावे तत्र रागद्वेषाभाव एवेति भावः॥८५॥
ननु विवेकिनो देहाद्यपकारिषु द्वेषो दृश्यत एवेत्याशंक्य विवेकियोगिनोः स समान एवेति परिहरति, देहेति ।
देहादेः प्रतिकूलेषु द्वेषस्तुल्यो द्वयोरपि । |
विवेकियोगिनोर्द्वयोरपि देहादेः प्रतिकूलेषु अनिष्टकारिषु सर्पादिषु द्वेषः तुल्यः समान एव । ननु तादृशेषु द्वेषं कुर्वन् योगी एव न भवतीत्युच्यते चेत् तादृशो द्वेषकर्ता अविवेकी अपि भवति ॥ ८६॥
ननु विवेकिनो द्वैतभानमस्ति । न तथा योगिन इतीदमेवातिशयकारणं योगस्येति तृतीये पक्षे किं व्यवहारदशायां विवेकिनो द्वैतभानमुतान्यत्रेति विकल्प्य प्रथमे उभयोस्तत्तुल्यतां दर्शयति, द्वैतस्येति ।
दैतस्य प्रतिभानं तु व्यवहारे द्वयोः समम् । |
व्यवहारे विवेकियोगिनोर्दूयोरपि द्वैतस्य प्रतिभानं दर्शनं समम् । द्वितीयं परिहरति समाधाविति । योगिनः समाधौ द्वैतं न भासत इति चेतहिं अद्वैततत्त्व- विवेकिनोऽद्वैतमेव तत्वं न तु द्वैतमिति श्रुतियुक्तिभ्यां विवेचनवतोऽपि विवेकदशायां तद्वत् द्वैतम् न भासत इत्यर्थः ॥ ८७॥
अद्वैततत्त्वविवेकिनो द्वैतभावनाभाव एवोत्तराध्याये प्रतिपाद्यत इत्याह, विवक्ष्यत इति ।