पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१२॥ ]
५१५
कल्याणपीयूषव्याख्यासमेता

विवक्ष्यते तदस्माभिरद्वैतानन्दनामके ।
अध्याये हि तृतीयेऽतः सर्वमप्यतिमंगलम् ॥ ८८॥

 स्पष्टोऽर्थः ॥ ८८॥

 ननु द्वैतादर्शनयुक्तस्य विवेकिनो योगित्वमेव सिध्यतीत्याशंक्य इष्टापत्ति रेवेत्याह, सदेति ।

सदा पश्यन्निजानन्दमपश्यन्निखिलं जगत् ।
अर्थाद्योगीति चेत्तर्हि । संतुष्टो वर्धतां भवान् ॥ ८९ ॥

 सदा निजानन्दं निरुपाधिकमात्मानन्दं पश्यन् निखिलं जगत् द्वैतप्रपञ्चमपश्यन् स विवेकी अर्थात् योगी एव भवतीति चेत् तर्हि भवान् अस्मत्पक्षः समीचीन इति संतुष्टः सन् वर्धतां दीर्घायुष्मान् भवतु ॥८९॥

 अध्यायारंभे प्रतिज्ञातं मन्दानुजिघृक्षया प्रारब्धस्य प्रकरणस्यार्थं संक्षे पतः प्रदर्श्य उपसंहरति, ब्रह्मेति ।

ब्रह्मानन्दाभिधे ग्रंथे मन्दानुग्रहसिद्धये ।
द्वितीयाध्याय एतस्मिन्नात्मानन्दो विवेचितः ॥ ९० ॥

 स्पष्टोऽर्थः । मन्दानुग्रहसिद्धये ब्रह्मानन्द एव समाधावनुभूयमानत्वाद्योगानन्द इत्युच्यते । जगतः सृष्टिस्थितिलयकारणत्वेन “यतो वा इमानि भूतानि जायन्त” इति श्रुतिप्रतिपादितं ब्रह्म अखण्डानन्दरूपतया सुषुप्तौ ज्ञात्रादित्रिपुटी विरहितावस्थायामनुभूयते । नायं विषयो विचारचतुरेतराणां सुगमः । मन्दबुद्धिस्तु पुत्रमित्रादिभिस्तादात्म्यमापद्य तेषु विकलेषु स्वयं विकल इति मन्यते । इयं भ्रान्तिरवश्यमपनीयेति मत्वा येषु पुत्रमित्रादिषु प्रीतिः क्रियते न ते आत्मनोऽपि प्रियतराः, आत्र्मार्थमेवान्ये प्रियाः, तत आत्मन्यतिशायिनी प्रीतिरित्यात्मनः शेषित्वं मन्दानुग्रहार्थमस्मिन् प्रकरणे सर्वजनानुभवपूर्वकमुपदिश्यत इति भावः।ननु कर्मोपासनानन्दांस्त्रीन् प्रकरणादावुपक्रम्य कथमेकेनास्मानन्देनोपसंहार इति चेदत्रोच्यते । आत्मानन्द इत्यभिहितमिदं प्रकरणमिति वक्तुरात्मानन्द एव प्रकरणे