पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५

पुटमेतत् सुपुष्टितम्
प्रकरणम्।]
२९
कल्याणपीयूषव्याख्यासमेता

एवैष विभागो न तु परमार्थवस्तुनः। "वाचारम्भणं विकारो नामधेयं मृत्तिकेत्येव सत्य" मिति श्रुतेः (छां. ६. १.४) ॥ ५१ ॥

 नायं पदार्थत्वविचारः परमार्थवस्तुनीत्येवमर्थमेव प्रपञ्चयति, विकल्पेति।}}

विकल्पतदभावाभ्यामसंस्पृष्टात्मवस्तुनि ।
विकल्पितत्वलक्ष्यत्वसम्बन्धाद्यास्तु कल्पिताः ॥ ५२॥

 विकल्पतदभावाभ्यां महावाक्यलक्षितं परमार्थं वस्तु सविकल्पं वा निर्विकल्पं वेत्याकारकविचारणया असंस्पृष्टात्मवस्तुनि असङ्गात्मपदार्थे विकल्पि- तत्वलक्ष्यत्वसंबंधाद्यास्तु विकल्पितत्वं सविकल्पत्वमुत निर्विकल्पत्वमिति विचारणा- विषयत्वं लक्ष्यत्वं सम्बन्धस्समवायादिः आदिर्येषां ते तथाभूताः ; आदिशब्देन द्रव्यादिसप्तपदार्था गृह्यन्ते ; ते कल्पिताः आरोपिताः। तार्किकाभिमतद्रव्यत्वादि- पदार्थविभाजकधर्माः नामरूपात्मकस्य जगतो न तु परमार्थवस्तुनः । तच्च “अशब्दमस्पर्शमरूपमव्यय" मित्यादिना (का. १. १५) ज्ञेयम् । ननु सिद्धान्ति- भिरपि लक्षणावृत्तिस्स्वीक्रियत इति चेन्न; महावाक्यार्थरूपव्यवहारदशायामेव तस्याङ्गीकृतत्वात् ॥ ५२ ॥


श्रवणादित्रयविवरणम् ।

 एवं तत्त्वमस्यादिमहावाक्यार्थं विचारणाफलानुवादपूर्वकं निरूप्य "आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्य" (बृ.४.५. ६.) इत्युपनिषद्वाक्योपात्तश्रवणमनननिदिध्यासनेष्वादावाद्यद्वयस्य स्वरूपं निरूपयति,इत्थमिति ।

इत्थं वाक्यैस्तदर्थानुसन्धानं श्रवणं भवेत् ।
युक्तया सम्भावितत्वानुसन्धानं मननन्तु तत् ॥ ५३ ॥

 वाक्यैस्तत्त्वमस्यादिभिरित्थमन्वयव्यतिरेकादियुक्तया पञ्चकोशविवेकेन भागत्यागलक्षणया चोक्तरीत्यार्धकल्पनेन तदर्थानुसन्धानं तेषां महावाक्यानामर्धस्य जीवब्रह्मणोरैक्यरूपस्यानुसन्धानमवबोधनं श्रवणं भवेत् । एवं श्रवणानन्तरं श्रुतस्यार्धस्य युक्त्या सम्भावितत्वानुसन्धानमिति यत्तत्तु मननमित्यभिधीयते ॥ ५३ ॥