पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
५१८
[ब्रह्मनंदे अद्वैतानंद
पञ्चदशी

आनन्दस्य जगत्कारणत्वकथनम् ।

 ननूदाहृततैत्तिरीयश्रुतौ “आत्मन आकाशः संभूत” (तै. २. १.) इत्यात्मनो जगतः कारणत्वमुक्तं नत्वानन्दस्येत्याशंक्य तत्रत्यवाक्यानामर्थतः पठनेन समाधत्ते, आनन्देति ।

आनन्दादेव तज्जातम् तिष्ठत्यानन्द एव तत् ।
आनन्द एव लीनं चेत्युक्तानन्दात्कथं पृथक् ॥ ३ ॥

 तज्जगत् आनन्दादेव जातं । तत् आनन्दे एव तिष्ठति । आनन्दे एव लीनं च । इति जगत्कारणत्वेनोक्तानंदात् कथं पृथक् भवेत् ? जगतः सृष्टिस्थिति- लयानामानन्दस्य कारणत्वादानन्दादन्यज्जगन्नास्तीति भावः ॥३॥

 ननु कारणादभिन्नं कार्यमित्यनैकांतिकोऽयं नियमः। स्वकारणभूतात् कुलालात् भिन्नतया घटस्य दृष्टत्वादित्याशंक्याह, कुलालादिति ।

कुलालाद्घट उत्पन्नो भिन्नश्चेति न शक्यताम् ।
मृद्वदेष उपादानं निमित्तं न कुलालवत् ॥ ४॥

 घटः कुळाळादुत्पन्नः । ततो भिन्नश्च। अतः कारणात्कार्यं भिन्नमिति । न शंक्यतां । तत्र कारणमाह, मृद्वदिति । घटं प्रति मृद्वत् जगत्प्रति एष आनंद उपादानं कारणम् । कार्योत्पादनार्थमुपादीयमानं कार्यान्वितं कारणम् उपादानमित्युच्यते । न तु कुलालवन्निमित्तं कारणम् । एवं च सामान्यतः कारणादभिन्नं कार्यमिति नियमो नाद्रियते । किं तूपादानकारणादभिन्नं कार्यमित्यंगीक्रियते । स च नानैकांतिक इति भावः ॥४॥

 ननु घटं प्रति मृदिव कुळालोऽप्युपादानकारणं किं न स्यादत्याशक्य यस्योत्पत्तिलययोर्यत्कारणं तस्य तदुपादानमिति लक्षणान्नेत्याह, स्थितिरिति ।

स्थितिर्लयश्च कुंभस्य कुलाले स्तो न हि क्वचित् ।
दृष्टौ तौ मृदि तद्वत्स्यादुपादानं तयोः श्रुतेः ॥ ५ ॥

 कुंभस्य स्थितिर्लयश्च कचिदपि कुळाले न स्तः । अतो घटं प्रति कुलालो