ततो निरंश आनन्दे विवर्तो जगदिष्यताम् । |
ततो निरंशे आनन्दे जगत् विवर्त इष्यताम् । आनन्द एव स्वयमविकारी जगदिवावभासत इत्यर्थः । नन्वन्यस्य कल्पकस्याभावे विवर्तो न स्यादित्याशंक्याह, मायेति । ऐन्द्रजालिकशक्तिवत् मायाशाक्तिः जगतः कल्पिका स्यात् । “माया सृजति विश्वम् सन्निरुद्धस्तत्र मायया", (६-९७) “स्वतत्त्वमाश्रिता शक्तिः कल्पयेत्सति विक्रिया’ (२-५९) इति च पूर्वमुक्तम् ॥ १०॥
शक्तेः शक्तादपार्थक्योक्तिः ।
आनन्दान्यस्याः मायाशक्तेरभ्युपगमे सद्वितीयतापत्तिमाशंक्य तस्याः मिथ्यात्वविवक्षया तदनिर्वाच्यत्वं दर्शयति, शक्तिरिति ।
शक्तिः शक्तात् पृथङ्नास्ति तद्वद्दृष्टेर्न चाभिदा । |
शक्तिः अग्न्यादेर्दाहकत्वशक्तिः शक्तात् शक्तिमतोऽग्न्यादेः पृथक् भिन्ना नास्ति । कुतः? तद्वत् शक्तिमदिव दृष्टे: दर्शनात् । शक्तिमतो भेदेनानुपलभ्यमानत्वादित्यर्थः । तर्हि शक्तिः शक्तिमतोऽभिन्ना स्यादित्यत आह, नेति । उभयोरभिदा अभेदोऽपि न । कुतः ? मंत्रौषधीनां प्रतिबंधस्य दृष्टत्वात् । अग्नेः प्रत्यक्षतः प्रतीयमानत्वेन सत्वे निश्चये मण्यादिसमवधाने स्फोटादेरजननेन तत्र शक्तिनाशस्यावश्याभ्युपेयत्वात् वह्निस्वरूपातिरिक्त शक्तिः सिध्यतीति भावः । ननु प्रतिबंधदर्शनात् शक्तिः सिद्ध्यतु । किं तु तस्याः भेदो मास्तु इत्यत आह, शक्तयभावे त्विति । शक्त्यभावे तु भेदेन शक्त्यभावे तु स प्रतिबंधः कस्य स्यात् निर्विषय एव स्यात् । वह्ने: प्रत्यक्षत: सिद्धत्वेन तदभिन्नायाः शक्तेरपि सत्त्वाभ्युपगमप्रसंगादिति भावः ॥११ ॥
ननु शक्तेरतीन्द्रियत्वेन तन्नाशस्याप्यतीन्द्रियत्वावश्यंभावात्प्रतिबंधः कथं ज्ञातुं शक्य इत्यत आह, शक्तेरिति ।
शक्तेः कार्यानुमेयत्वादकार्यं प्रतिबंधनम् । |