ज्वलतोऽग्नेरदाहे स्यान्मन्त्रादिप्रतिबंधता ॥ १२ ॥ |
शक्तेः कार्यानुमेयत्वात् शक्तेरप्रत्यक्षत्वात् यत्र स्फोटादिकार्यं तत्राग्निशक्तिरित्यनुमितिविषयत्वात् अर्काय असति स्फोटादिकार्ये प्रतिबंधनमवगम्यते । कार्यानुमेयायाः शक्तेरभावोऽपि तदितरयावकारणसमवधानकालीनकार्याभावेननुमातुं शक्यत इति भावः । तत्र दृष्टान्तमाह, ज्वलत इति । ज्वलतोऽग्नेरदाहे मंत्रादीनां दाहशक्तिप्रतिबंधता स्यात् सिध्यति । अग्निर्ज्वलति; किं तु प्रतिबंधसन्निधौ स्फोटादि न जनयति । अतः शक्तिः प्रतिबद्धेत्यनुमातुं शक्यत इति भावः ॥ १२ ॥
एवं लौकिकशक्तिम् प्रदर्शये "ते ध्यानयोगानुगता अपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढ़ां” (श्वेता. १.३.) “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया चे"ति (श्वेता-६. ३६.) श्वेताश्वतरश्रुत्योरर्थपठनेन मायाशक्तेरस्तित्वं सपादश्लोकेन प्रदर्शयति, देवात्मेति ।
देवात्मशक्तिं स्वगुणैर्निगूढां मुनयोऽविदन् । |
मुनयो मननशीलः जगज्जीवेश्वरादीनां तत्त्वावेक्षणाय ध्यानयोगमास्थितादेवात्मशक्तिं देवः स्वयंप्रकाशः स चासावात्मा प्रत्यगभिन्नपरमात्मा, तस्य मायाशक्तिम् स्वगुणैर्निगूढां स्वकार्यभूतैः स्थूलसूक्ष्मशरीरैर्निगूढां नितरामावृतां, यथोर्णनाभः स्वजन्यैः तन्तुभिराव्रियते तथा आवृतां अविदन् अजानन् । तस्यास्स्वरूपविषये तदुपनिषद्गतम् वाक्यान्तरमर्थतोऽनुवदति, परेति । अस्य परब्रह्मणः परा शक्तिः । विविधा। वैविध्यं दर्शयति, क्रियेति । क्रियाज्ञानबलात्मिका क्रिया अमेयचित्र रचनावैभवात्मकस्यास्य जगतो रचनारूपा, "बहूनामेकं बोजं बहुधा यः करोती"ति (श्वे. ६-१२) श्रुतत्वात् । ज्ञानं चित्स्वरूपं । “चेतनश्चेतनानामेको बहूनाम्” इति (कठ. २. ५.१३.) श्रुतेः। बलं क्रियाज्ञानशक्तिसाहचर्यात् बलशब्देन इच्छाशक्ति- गृह्यते, तस्यात्मा स्वरूपं यस्यास्सा तथाभूता शक्तिरिति वेदवचः प्राह । अत्र श्वेताश्वतरे षष्ठाध्याये सप्तममंत्रमारभ्य त्रयोदशमंत्रान्तमस्मिन् ग्रंथे द्वितीयप्रकरणे