पृष्ठम्:वेदान्तपंचदशी (कल्याणपीयूषव्याख्यासमेता).djvu/५५५

एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रकरणम् ॥१३॥ ]
५२३
कल्याणपीयूषव्याख्यासमेता

४७, ४८, ४९ श्लोकाश्च समीक्षितव्याः ॥ १३ ॥

 अयमेवार्थो वसिष्ठेन रामायोपदिष्ट इति तद्वाक्यार्थं पठति, वसिष्ठेति ।

…. …. वसिष्ठश्च तथाऽब्रवीत् ।
सर्वशक्ति परं ब्रह्म नित्यमापूर्णमद्वयम् ।
ययोल्लसति शक्त्यासौ प्रकाशमधिगच्छति ॥ १४ ॥

 यथा वेदवचः प्राह तथा । वसिष्ठोऽब्रवीत् । तत्प्रकारमाह, सर्वेति । परं ब्रह्म सर्वशक्ति सोपाधिकत्वेन सर्वशक्तिमत् । परमार्थतो नित्यं निर्विकारं आपूर्णम् आसमंतात् व्याप्तं अत एवाद्वयम् । तत् परं ब्रह्म यया मायाशक्त्या उल्लसति विशेषाकारेणावभासते तथाऽसौ शक्तिः प्रकाशं अभिव्यक्तिं आधिगच्छत्याप्नोति ॥१४॥

 मायाशक्तेरभिव्यक्तिप्रकारं सार्थद्वाभ्यां विपुलीकरोति, चिदिति ।

चिच्छक्तिर्बह्मणो राम ! शरीरेषुपलभ्यते ॥१५॥
स्पंदशक्तिश्च वातेषु दाढर्यशक्तिस्तथोपले।
द्रवशक्तिस्तथांभस्सु दाहशक्तिस्तथाऽनले ॥ १६ ॥
शून्यशक्तिस्तथाऽऽकाशे नाशशक्तिर्विनाशिनि ।
यथाऽण्डेऽन्तर्महासर्पो जगदस्ति तथाऽऽत्मनि ।। १७॥

 हे राम ! विश्वनामधीश्वर; ‘राशब्दो विश्ववचनो मश्चापीश्वरवाचकः । विधानामीश्वरो यो हि तेन रामः प्रकीर्तितः” स्पष्टमन्यत् । एवं सर्ववस्तुषु काचन नियता शक्तिर्दश्यते; एवं विधाः शक्तयः तत्कार्यभूतं जगश्च अंडे अंतः महासपों यथा तथा आत्मनि संति निगूढमिति भावः असत्कार्यवादनिरासार्थमयं दृष्टान्तः ॥ १७ ॥

 विचित्रस्यापि जगतः सत्वबोधनार्थं दृष्टान्तमाह, फलेति ।