फलपत्रलतापुष्पशाखाविटपमूलवान् । |
नन्वित्यामन्त्रणे। स्पष्टमन्यत् । पृथुलघुभेदेन शाखाविटपभेदः। विटं विस्तारं वाति पिबति वेति विटपः ॥१८॥
देशकालानुसारतः शक्तयोऽभिव्यज्यन्ते न तु युगपदिति सोदाहरणमाह, क्वचिदिति ।
क्वचित्काश्चित्कदाचिच्च तस्मादुद्यन्ति शक्तयः । |
स्पष्टोऽर्थः ॥ १९ ॥
जगतः काल्पनिकत्वविवक्षया तत्कल्पकस्य मनसः स्वरूपं प्रदर्शयति, स इति ।
स आत्मा सर्वगो राम! नित्योदितमहावपुः । |
हे राम ! नित्योदितमहावपुः नित्यमुदितं प्रकाशमानं महत् अपरिच्छिन्नं वपुः स्वरूपं यस्य सः सर्वगः सर्वव्यापी आत्मा यत्समये मनाक् ईक्षत् मननीं स्वपरावधोधनरूपां मायाशक्ति धत्ते तत्समये मन इत्युच्यते ॥२०॥
जगत्कल्पनारीतिमुदाहरति, आदाविति ।
आदौ मनस्तदतु बंधविमोक्षदृष्टी |
हे सुभग ! आदौ मनः मनःशक्तिर्भवति । तदनु तदनन्तरं बंधविमोक्षदृष्टी बंधस्य विमोक्षस्य च दृष्टी कल्पने भवतः । पश्चात् भुवनाभिधाना भुवनं लोकमित्य